| YouTube Channel

दघ (dagha)

 
शब्दसागरः
English
दघ r. 1st cl. (इ) दघि (दंघति) 1. To quit or abandon.
2. To cherish or
protect. r. 5th cl. (दघ्नोति)
1. To hurt or kill.
2. To protect: some
consider this root peculiar to the Vedas. भ्वा० प० सक० सेट् इदित्
घातनार्थे स्वा० प० सक० सेट्
Wilson
English
दघ r. 1st cl. (ई) दधि (दंघति)
1 To quit or abandon.
2 To cherish or protect. r. 5th cl. (दध्नीति)
1 To hurt or kill.
3 To protect: some consider this root peculiar to the Vedas.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दघ्
मूलधातुः:
दघ
धात्वर्थः:
घातने पालने
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दघ्नोति
अनुबन्धादिविशेषः:
छान्दसः
धातुप्रदीपः
Sanskrit
दघँ दघ घातने
- दघ्नोति 29
शब्दकल्पद्रुमः
Sanskrit
दघ, त्यागे अवने इति कविकल्पद्रुमः
(भ्वां-परं सकं-सेट् ।) इ, दङ्घ्यते अवनंरक्षणम् इति दुर्गादासः
दघ, घातने इति कविकल्पद्रुमः
(स्वां-परं-सकं-सेट् ।) न, दघ्नोति दघ घाते ।इति जौमराः पठन्ति तेन तदर्थकल्पनमेवो-चितम् ततश्च घातनमिति हन्त्यर्थस्य पाक्षिक-चुरादित्वेन स्वार्थे ञौ रूपं हननमित्यर्थः किञ्चहिंसनपाठेनैवेष्टसिद्धे घातनपाठो हिंसाप्रेर-णार्थः स्यान्न वेति काकदन्तान्वेषणवद्बिफलंत्रयाणामेव कातन्त्राद्यसम्मतत्वात् इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
दघ त्यागे पालने
भ्वा०
पर०
सक०
सेट् इदित् दङ्घतिअदङ्घीत् ददङ्घ
दघ घातने स्वा०
पर०
सक०
सेट् दघ्नोति अदाघीत्--अद-घीत् ददाघ देघतुः गतौ दिवा० निघण्टुः दष्यतिइति भेदः “पश्चा दघ्या यो अघस्य” ऋ० १२३ ।५ “दध्याः गच्छतु पुरुषव्यत्ययः” भा० “पश्चाद्दष्य-रथ्यो विभागे” ऋ० ५६ २१
क्षीरतरङ्गिणी
Sanskrit
दघँ दघ घातने
- दघ्नोति 27
धातुवृत्तिः
Sanskrit
दघँ दघ (अर्थः) घातने, पालने
( दघ्नोति ) इत्यादि धाराधरा एव धराधराणां निदाघदाघौघविघातदक्षा इति अत्र दघ घातने इति स्वादिः, ततो निदघ्यते ऽनेनेति कृत्वा निदाघशब्दः साधुरिति पारायणिका इति सुधाकरस्तदपाणिनीयम्, संज्ञायामर्घमेघनिदाघावदाघा इति न्यङ्क्वादौ पठित्वा दहतेर्घञि व्युत्पादनात् तथा तत्र वृत्तिः, अपूर्वस्य निपूर्वस्य दहेरिति 27
कृदन्तरूपमाला
Sanskrit
1 {@“दघ घातने पालने च”@} 2 छान्दसः।
दाघकः-घिका, दाघकः-घिका, दिदघिषकः-षिका, दादघकः-घिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकककतिवत् 3 ज्ञेयानि।
4 दघ्नुवन् 5 -ती, घञि-- 6 निदाघः।
प्रासङ्गिक्यः
01
=>
(८१२)
02
=>
(५-स्वादिः-१२७३। सक। सेट्। पर।)
03
=>
(१३९)
04
=>
[[१। शतरि ‘स्वादिभ्यः श्नुः’ (३-१-७३) इति श्नुप्रत्यये, ‘अचि श्नुधातु--’ (६-४-७७) इत्युवङि रूपमिति विशेषः।]]
05
=>
[[आ। ‘क्ष्मां दध्नुवन् मखचमिव्यसनानि रिण्वन् ऋक्षिण्वतां चिरयणैरपथं जिरिण्वन्।’ धा। का। २। ७१।]]
06
=>
[[२। “धाराधरा एव धराधराणां निदाघदाघौघविघातदक्षाः” इत्यत्र, ‘दघ घातने’ इति स्वादिः, ततो निदघ्यतेऽनेनेति कृत्वा निदाघशब्दः साधुः’ इति पारायणिकाः।’ इति सुधाकरः। तदपाणिनीयम्
\n\n ‘संज्ञायाम् अर्घमेघ- निदाघावदाघाः’ इति न्यङ्क्वादौ (७-३-५३) पठित्वा दहतेर्घञि व्युत्पादनात्। तथा तत्र (७-३-५३) वृत्तिः--‘अवपूर्वस्य निपूर्वस्य दहेः इति।’ माधवधातुवृत्तावुक्तम्।]]