| YouTube Channel

दगार्गल (dagArgala)

 
Apte 1890
English
दगा(का)र्गलं Examining the ground in searching for water, or rules for ascertaining the places of waters.
Monier Williams Cologne
English
दगार्गल
n.
‘water-key (दग
=
दक)’, examining the soil in searching for wells or rules for doing so,
VarBṛS.
liv
(उदग्°), cvii
N.
of liv.
Monier Williams 1872
English
दगार्गल दगार्गल, अम्, n. (fr. = उद +
2. + अर्गल), examining the soil in searching for
wells or rules for doing so.
वाचस्पत्यम्
Sanskrit
दगा(का)र्गल
न०
दकस्य जलद्वाररोधस्यार्गलमिव गमध्य-पाठे पृषो० कमध्यपाठस्तु सम्यक् ५४ अ० वराहसंहि-तोक्ते निर्जलदेशे जलोपलब्धिसाधने उपायभेदे यथा“धर्म्यं यशस्यं वदाम्यतोऽहं दगा(का)र्गलं येनजलोपलब्धिः पुंसां यथाङ्गेषु सिरास्तथैव क्षितावपिप्रोन्नतनिम्नसंस्थाः एकेन वर्णेन रसेन चाम्भश्च्युतंनभस्तो वसुधाविशेषात् नानारसत्वं बहुवर्णतां चगतं परीक्ष्यं क्षितितुल्यमेव पुरुहूतानलयमनिरृतिवरुणपवनेन्दुशङ्करा देवाः विज्ञातव्याः क्रमशःप्राच्यादीनां दिशां पतयः दिक्पतिसञ्ज्ञाश्च सिरानवमी मध्ये महासिरानाम्नी एताभ्योऽन्याः शतशोविनिःसृता नामभिः प्रथिताः पातालादूर्ध्वसिराःशुभाश्चतुर्दिक्षु संस्थिता याश्च कोणदिगुत्था शुभाःसिरानिमित्तान्यतो वक्ष्ये यदि वेतसोऽम्बुरहितेदेशे हस्तैस्त्रिभिस्ततः पश्चात् सार्धे पुरुषे तोयं वहतिसिरा पश्चिमा तत्र चिह्नमपि चार्द्धपुरुषे मण्डूकःपाण्डुरोऽथ भृत् पीता पुटभेदकश्च तस्मिन् पाषाणोभवति तोयमधः जम्ब्वाश्चोदग्धस्तैस्त्रिभिः सिराधोनरद्वये पूर्वा मृल्लोहगन्धिका पाण्डुराथ पुरुषेऽत्रमण्डूकः जम्बूवृक्षस्य प्राग् वल्मीकी यदि भवेत् समी-पस्थः तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ।अर्धपुरुषे मत्स्यः पारावतसन्निभश्च पाषाणः ।मृद्भवति चात्र नीला दीर्घं कालं बहु तोयम् ।पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे पुरुषेसितोऽहिरश्म्यञ्जनोपमोऽधः सिरा सुजला उदगर्जु-नस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः त्निभि-रम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात् श्वेतागोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा पीता सिताससिकता ततो जलं निर्दिशेदमितम् वल्मीकोप-चितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः पुरुषद्वयेसपादे स्वादु जलं भवति चाशोष्यम् रोहितमत्स्यो-ऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः सिकतासशर्कराथ क्रमेण परतो भवत्यम्भः पूर्वेण यदिवदर्या वल्मीको दृश्यते जलं पश्चात् पुरुषैस्त्रिभि-रादेश्यं श्वेता गृहगोधिकार्धनरे सपलाशा बदरीचेद् दिश्यपरस्यां ततो जलं भवति पुरुषत्रये सपादेपुरुषेऽत्र ढुण्ढुभिश्चिह्नम् बिल्वोदुष्वरयोगे विहायहस्तत्रयं तु याम्येन पुरुषैस्त्रिभिरम्बु भवेत् कृष्णोऽर्धनरे मण्डूकः काकोदुम्बरिकायां वल्मीकोदृश्यते सिरा तस्मिन् पुरुषत्रये सपादे पश्चिमदिक्स्थावहति सा आपाण्डुपीतिका मृद् गौरसवर्णश्चभवति पाषाणः पुरुषार्धे कुमुदनिभी दृष्टिपथं मूषिकोयाति जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः ।प्राच्यां हस्तत्रितये वहति सिरा दक्षिणा प्रथमम् ।मृन्नीलोत्पलवर्णा कापोती चैव दृश्यते तस्मिन् हस्ते-ऽजगन्धिमत्स्यो भवति पयोऽल्पं सक्षारम् शोणा-कतरोरपरोत्तरे सिरा द्वौ करावतिक्रम्य कुमुदानाम सिरा सा पुरुषत्रयवाहिनी भवति आसन्नोवल्मीको दक्षिणपार्श्वे विभीतकस्य यदि अध्यर्धेतस्य सिरा पुरुषे ज्ञेया दिशि प्राच्याम् तस्यैव पश्चि-मायां दिशि वल्मीको यदा भवेद्धस्ते तत्रोदग्भवतिसिरा चतुर्भिरर्धाधिकैः पुरुषैः श्वेतो विश्वम्भरकःप्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा अपरस्यां दिशि चसिरा नश्यति वर्षत्रयेऽतीते सकुशासित ऐशान्यांवल्मीको यत्र कोविदारस्य मध्ये तयोर्नरैरर्धपञ्चमै-स्तोयमक्षोभ्यम् प्रथमे पुरुषे भुजगः कमलोदर-सन्निभो मही रक्ता कुरुविन्दः पाषाणश्चिह्नान्येतानिवाच्यानि यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरेतोयम् वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ।पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च ।पाषाणोऽभ्रनिकाशः सौम्या सिरा शुभाम्बुवहा ।सर्वेषां वृक्षाणामधःस्थितो दर्दुरो यदा दृश्यः तस्मा-द्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः पुरुषे तु भवतिनकुलो नीला मृत् पीतिका ततः श्वेता दर्दुरसमान-रूपः पाषाणो दृश्यते चात्र यद्यहिनिलयो दृश्योदक्षिणतः संस्थितः करञ्जस्य हस्तद्वये तु याम्येपुरुषत्रितये तु सिरा सार्धे कच्छपकः पुरुषार्धे प्रथमंचोद्भिद्यते सिरा पूर्वा उदगम्या स्वादुजला हरितो-ऽश्माधस्ततस्तोयम् उत्तरतश्च मधूकादहिनिलयःपश्चिमे तरोस्तोयम् परिहृत्य पञ्च हस्तान् अर्धाष्टम-पौरुषे प्रथमम् अहिराजः पुरुषेऽस्मिन् धूम्रा धात्रीकुलत्थवर्णोऽश्मा माहेन्द्री भवति सिरा वहति स-फेनं सदा तोयम् वल्मीकः स्निग्धो दक्षिणेन तिल-कस्य सकुशदूर्वश्चेत् पुरुषैः पञ्चभिरम्भो दिशि वारुण्यांसिरा पूर्वा सर्पावायः पश्चाद् यदा कदम्बस्य दक्षि-णेन जसम् परतो हस्तत्रितयात् षड्भिः पुरुषैस्तुरी-योनैः कौबेरी चात्र सिरा वहति जलं लोहगन्धिचाक्षोभ्यम् कनकनिभो मण्डूको नरमात्रे मृत्तिकापीता वल्मीकसंवृतो यदि तालो वा भवति नारि-केलो वा पश्चात् षड्भिर्हस्तैर्नरेश्चतुर्भिः सिरा याम्या ।याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम् सप्तपरित्यज्य करान् खात्वा पुरुषान् जलं पञ्च कर्बुरको-ऽहिः पुरुषे कृष्णा मृत् पुटभिदपि पाषाणः श्वेतामृत् पश्चिमतः सिरा ततश्चोत्तरा भवति अश्मन्तकस्यवामे वदरी वा दृश्यतेऽहिनिलयो वा षड्भिरुदक्तस्य करैः सार्धे पुरुषत्रये तोयम् कूर्मः प्रथमे पुरुषेपाषाणो धूसरः ससिकता मृत् आदौ सिरा चयाम्या पूर्वोत्तरतो द्वितीया वामेन हरिद्रतरो-र्वल्मीकश्चेत्ततो जलं पूर्वे हस्तत्रितये पुरुषैः सत्र्यंशैःपञ्चभिर्भवति नीलो भुजगः पुरुषे मृत् पीता मरकतो-पमश्चाश्मा कृष्णा भूः प्रथमं वारुणी सिरा दक्षिणे-नान्या जलपरिहीने देशे दृश्यन्तेऽनूपजानि चि-ह्नानि वीरणदूर्वा मृदवश्च यत्र तस्मिन् जलं पुरुषे ।भार्गी त्रिवृता दन्ती सूकरपादी लक्षणा चैव ।नवमालिका हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः ।स्निग्धाः प्रलम्बशाखा वामनविटपद्रुमाः समीपजलाः ।सुषिरा जर्जरपत्रा रूक्षाश्च जलेन सन्त्यक्ताः तिल-काम्रातकवरुणकभल्लातकबिल्वतिन्दुकाङ्कीलाः पिण्डा-रशिरीषाञ्जनपरूषकावञ्जुलातिबलाः एते यदि सुस्नि-ग्धा वल्मीकैः परिवृतास्ततस्तोयम् हस्तैस्त्रिभिरुत्तर-तश्चतुर्भिरर्धेन नरस्य अतृणे सतृणा यस्मिन् सतृणेतृणवर्जिता मही यत्र तस्मिन् सिरा प्रदिष्टा वक्तव्यंवा धनं तस्मिन् कण्टक्यकण्टकानां व्यत्यासेऽम्भ-स्त्रिभिः करैः पश्चात् खात्वा पुरुषत्रितयं त्रिभागयुक्तंधनं वा स्यात् नदति मही गम्भीरं यस्मिंश्चरणाहताजलं तस्मिन् सार्धैस्त्रिभिर्मनुष्यैः कौवेरी तत्र चसिरा स्यात् वृक्षस्यैका शाखा यदि विनता भवतिपाण्डुरा वा स्यात् विज्ञातव्यं शाखातले जलंत्रिपुरुषं खात्वा फलकुसुमविकारो यस्य तस्य पूर्वेसिरा त्रिभिर्हस्तैः भवति पुरुषैश्चतुर्भिः बाषाणीऽधःक्षितिः पीता यदि कण्टकारिका तु कण्टकैर्विना दृश्यतेसितैः कुसुमैः तस्यास्तलेऽम्बु वाच्यं त्रिभिर्नरैरर्ध-पुरुषे खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जितेदेशे तस्याः पश्चिमभागे निर्देश्यं त्रिपुरुषे वारि ।यदि भवति कर्णिकारः सितकु सुमःस्यात्पलाशवृक्षो वा ।सव्येन तत्र हस्तद्वयेऽम्बु पुरुषत्रये भवति ऊष्मायस्यां धात्र्यां धूमो वा तत्र वारि नरयुग्मे निर्दे-ष्टव्या सिरा महता तोयप्रवाहेण यस्मिन् क्षेत्रो-द्देशे जातं सस्यं विनाशमुपयाति स्निग्धमतिपाण्डुरंचा महासिरा नरयुगे तत्र मरुदेशे भवति सिरायथा तथातः परं प्रवक्ष्यामि ग्रीवा करभाणामिवभूतलसंस्थाः सिरा भान्ति पूर्वोत्तरेण पीलोर्यदिवल्मीको जलं भवति पश्चात् उत्तरगमना सिराविज्ञेया पञ्चभिः पुरुषैः चिह्नं दर्दुर आदौ मृत्कपिलातः परं भवेद्धरिता भवति पुरुषेऽधोऽश्मातस्य तले वारि निर्देश्यम् पीलोरेव प्राच्यां वल्मीको-ऽतोऽर्धपञ्चमैर्हस्तैः दिशि याम्यायां तोयं वक्तव्यंसप्तभिः पुरुषैः प्रथमे पुरुषे भुजगः सितासितो हस्त-मात्रभूर्त्तिश्च दक्षिणतो वहति सिरा सक्षारं भूरिपानीयम् उत्तरतश्च करींरादहिनिलये दक्षिणे जलंस्वादु दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः ।रोहीतकस्य पश्चादहिवासश्चेत्त्रिभिः करैर्याम्ये द्वादशपुरुषान् खात्वा सक्षारा पश्चिमेन सिरा इन्द्रतरो-र्वल्मीकः प्राग्दृश्यः पश्चिमे सिरा हस्ते खात्वाचतुर्दश नरान् कपिला गोधा नरे प्रथमे यदि वासुवर्णनाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम् हस्तद्वये तुयाम्ये पञ्चदशनरावसानेऽम्बु क्षारं पयोऽत्र नकुलोऽर्धमानवे ताम्रसन्निभश्चाश्मा रक्ता भवति वसुधावहति सिरा दक्षिणा तत्र बदरीरोहितवृक्षौसम्पृक्तौ चेद्विनापि वल्मीकम् हस्तत्रयेऽम्बु पश्चात्षोडशभिर्मानवैर्भवति सुरसं जलमादौ दक्षिणासिरा वहति चोत्तरेणान्या पिष्टनिभः पामाणोमृच्छेता वृश्चिकोऽर्धनरे सकरीरा चेद्वदरी त्रिभिःकरैः पश्चिमेन तत्राम्भः अष्टादशभिः पुरुषैरैशानीबहुजला सिरा पीलुसमेता वदरी हस्तत्रय-सम्भिते दिशि प्राच्याम् विंशत्था पुरुषाणामशोष्य-मम्भोऽत्र सक्षारम् ककुभकरीरावेकत्र संयुतौ यत्रककुभविल्वौ वा हस्तद्वयेऽम्बु पश्चान्नरैर्भवेत्पञ्चविंशत्या ।वल्मीकमूर्द्धनि यदा दूर्वा कुशाश्च पाण्डुराः सन्ति ।कूपो मध्ये देयो जलमत्र नरैकविंशत्या भूमिःकदम्बक-युता वल्मीके यत्र दृश्यते दूर्वा हस्तत्रयेण याम्येनरैर्जलं पञ्चविंशत्या वल्मीकत्रयमध्ये रोहीतक-पादपो यदा भवति नानावृक्षैः सहितस्त्रिभिर्जलंतत्र वक्तव्यम् हस्तचतुष्के मध्यात् षोडशभिश्चाङ्गुलै-रुदग्वारि चत्वारिंशत्पुरुषान् खात्वाश्मातः सिराभवति ग्रन्थिप्रचुरा यस्मिञ्छमी भवेदुत्तरेण वल्मीकः ।पश्चात्पञ्चकरान्ते शतार्धसङ्ख्यैर्नरैः सलिलम् एकस्थाःपञ्च यदा वल्मीका मध्यमो भवेच्छेतः तस्मिन् सिराप्रदिष्टा नरषष्ट्या पञ्चवर्जितया सपलाशा यत्र शमीपश्चिमभागेऽम्बु मानवैः षष्ट्या अर्धनरेऽहिः प्रथमंसवालुका पीतमृत् परतः वल्मीकेन परिवृतः श्वेतोरोहीतको भवेद्यस्मिन् पूर्वेण हस्तमात्रे सप्तत्यामानवैरम्बु श्वेता कण्टकबहुला यत्र शमी दक्षिणेनतत्र पयः नरपञ्चकसंयुतया सप्तत्याहिर्नरार्धे ।मरुदेशे यच्चिह्नं जाङ्गले तैर्जलं विनिर्देश्यम् जम्बू-वेतसपूर्वे ये पुरुषास्ते मरौ द्विगुणाः जम्बूस्त्रिवृतामूर्वा शिशुमारी सारिवा शिवा श्यामा वीरुधयोवाराही ज्योतिष्मती गरुडवेगा सूकरिकामाष-पर्णीव्याघ्रपदाश्चेति यद्यहेर्निलये वल्मीकादुत्तरत-स्त्रिभिः करैस्त्रिपुरुषे तोयम् एतदनूपे वाच्यं जाङ्गल-भूमौ तु पञ्चभिः पुरुषैः एतैरेव निमित्तैर्मरुदेशेसप्तभिः कथयेत् एकनिभा यत्र मही तृणतरुवल्-मीकगुल्मपरिहीना तस्यां यत्र विकारो भवतिधरित्र्यां जलं तत्र यत्र स्निग्धा निम्ना सवालुकासानुनादिनी वा स्यात् तत्रार्धपञ्चमैर्वारि मानवैःपञ्चभिर्यदि वा स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलंप्रभूतं तरुगहनेऽपि हि विकृतो यस्तस्मात्तद्वदेववदेत् नमते यत्र धरित्री सार्धे पुरुषेऽम्बु जाङ्गला-नूपे कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ।उष्णा शीता मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्धैः ।इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् वल्मी-कानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः सिरा तदधः ।शुष्यति रोहते वा सस्यं यस्यां तत्राम्भः ।न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः वट-पिप्पलसमवाये तद्वद्वाच्यं सिरा चोदक् आग्नेयेयदि कोणे ग्रामस्य पुरस्य वा भवति कूपः नित्यंस करोति भयं दाहं समानुषं प्रायः तैरृत-कोणे बालक्षयं वनिताभयं वायव्ये दिक्त्रयमेत्त्यक्त्वाशेषासु शुभावहाः कूपाः सारस्वतेन मुनिना दगा(का)-र्गलं यत्कृतं तदवलोक्य! आर्याभिः कृतमेतद् वृत्तैरपिमानवं वक्ष्ये स्निग्धा यतः पादपगुल्मवल्ल्यो नि-श्छिद्रपत्राश्च ततः सिरास्ति पद्मक्षुरोशीरकुलाः स-गुण्ड्राः काशाः कुशा वा नलिका नलो वा खर्जूर-जम्ब्वर्जुनवेतसाः स्युः क्षीरान्विता वा द्रुमगुल्मबल्ल्यः ।छत्रेभनागाः शतपत्रनीपाः स्युर्नक्तमालाश्च ससिन्धुवाराः ।विभीतको वा मदयन्तिका वा यत्रास्ति तस्मिन् पुरुष-त्रयेऽम्भः स्वात्पर्वतस्योपरि पर्वतोऽन्यस्तत्रापि मूलेपुरुषत्रयेऽम्भः या मौञ्चकैः काशकुशैश्च युक्ता नीलाच मृद् यत्र ससर्करा तस्यां प्रभूतं सुरसं तोयंकृष्णाथवा यत्र रक्तमृद्वा ससर्करा ताम्रमहीकषायं क्षारं धरित्री कपिला करोति आपाण्डुरायांलवणं प्रदिष्टं मिष्टं पयो नीलवसुन्धरायाम् शाकाश्व-कर्णार्जुणबिल्वसर्जाः श्रीपर्ण्यरिष्टाधवशिंशपाश्च छिद्रैश्चपर्णैर्द्रुमगुल्मवल्ल्यो रूक्षाश्च दूरेऽम्बु निवेदयन्ति ।सूर्य्याग्निभस्मोष्ट्रखरानुवर्णा या निर्जला सा वसुधा प्र-दिष्टा रक्ताङ्कुराः क्षीरयुताः करीरा रक्ता धराचेज्जलमश्मनोऽधः वैदूर्यमुद्गाम्वुदमेचकाभा पाको-न्मुखोदुम्बरसन्निभा वा भृङ्गाञ्जनाभा कपिलाथ वा याज्ञेया शिला भूरिसमीपतोया पारावतक्षौद्रघृतोपमावा क्षौमस्य वस्त्रस्य तुल्यवर्णा या सोमवल्ल्याश्चैःसमानरूपा साप्याशु तोयं कुरुतेऽक्षयं ताम्रसमेता पृषतैर्विचित्रैरापाण्डुभस्मोष्ट्रखरानुरूपा भृङ्गो-पमाङ्गुष्ठिकपुष्पिका वा सूर्याग्निवर्णा शिला वि-तोया चन्द्रातपस्फटिकमौक्तिकहेमरूपा याश्चेन्द्रनील-मणिहिङ्गुलुकाञ्जनामाः सूर्य्योदयांशुहरितालनिभाश्चयाः स्युस्ताः शोभना मुनिवचोऽत्र वृत्तमेतत् एताह्यभेद्याश्च शिलाः शिवाश्च यक्षैश्च नागैश्च सदाभिजुष्टाः ।येषां राष्ट्रेषु भवन्ति राज्ञां तेषामवृष्टिर्न भवेत्कदा-चित् भेदं यदा नैति शिला तदानीं पालाशकाष्ठैःसह तिन्दुकानाम् प्रज्वालयित्वानलमग्निवर्णा सुधा-म्बुसिक्ता प्रविदारमेति तोयं शृतं मोक्षकभस्मना वायत्सप्तकृत्वः परिषेचनं तत् कार्यं शरक्षारयुतं शिलायाःप्रस्फोटनं वह्निवितापितायाः तक्रकाञ्जिकसुराः सकु-लत्था योजितानि वदराणि तस्मिन् सप्तरात्रमुषि-ताम्यभितप्तां दारयन्ति हि शिलां परिषेकैः नैम्यं पत्रंत्वक् नालं तिलानां सापामार्गं तिन्दुकं स्याद्गुडूची ।गोमूत्रेण स्रावितः क्षार एषां षट्कृत्वोऽतस्तापितोभेद्यतेऽश्मा आर्मं पयो हुडुविषाणमषीसमेतं पारा-वताखुशकृता युतं प्रलेपः टङ्कस्य तैलमथितस्य ततो-स्य पानं पश्चाच्छितस्य शिलासु भवेद्विघातः क्षारेकदल्या मथितेन युक्ते दिनोषिते पायितमायसं यत् ।सम्यक् शितं चाश्मनि नैति भङ्गं चान्यलोहेष्वपितस्य कौण्ठ्यम् पाली प्रागपरायताम्बु सुचिरं धत्तेन याम्यीत्तरा कल्लोलैरवदारमेति मरुता सा प्रायशःप्रेरितैः तां चेदिच्छति सारदारुभिरपां सम्पातमावार-येत् पाषाणादिभिरेव वा प्रतिचयं क्षुण्णं द्विपाश्वादिभिः ।ककुभवटाम्रप्लक्षकदम्बैः सनिचुलजम्बूवेतसनीपैः कुरु-वकतालाशोकमधूकैर्बकुलाविमिश्रैश्चावृततीराम् द्वारं चनैर्वाहिकमेकदेशे कार्य्यं शिलासञ्चितवारिमार्गम् ।कोशस्थितं निर्विवरं कपाटं कृत्वा ततः पांशुभिराव-पेत्तम् अञ्जनमुस्तोशीरैः सराजकोशातकामलकचूर्णैः ।कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यः कलुषं कटुकंलवणं विरसं सलिलं यदि वाशुभगन्धि भवेत् तदनेनभवत्यमलं सुरसं ससुगन्धि गुणैरपरैश्च युतम् हस्तोमथानुराधापुष्यधनिष्ठोत्तराणिरोहिण्यः शतभिषगित्यारम्भे कूपानां शस्यते भगणः कृत्वा वरुणस्य वलिंवटवेतसकीलकं सिरास्थाने कुसुमैर्गन्धैर्धूपैः संपूज्यनिधापयेत् प्रथमम् मेघोद्भवं प्रथममेव मया प्रदिष्टंज्येष्ठामतीत्य बलदेबमतादि दृष्ट्वा भौमं दगा(का)र्गलमिदं कथितं द्वितीयं सम्यग्वराहमिहिरेण मुनिप्रसादात्”