| YouTube Channel

दक्षिणायनं (dakSiNAyanaM)

 
Hindi
Hindi
जब सूरज दक्षिणी तरफ से गुजरता है
शब्दकल्पद्रुमः
Sanskrit
दक्षिणायनं,
क्ली,
(दक्षिणा दक्षिणस्यां दिशिदक्षिणे गोले वा अयनम् ।) सूर्य्यस्य दक्षिणा-गतिः सा श्रावणादिषट्षु मासेषु भवति ।इत्यमरः
*
यथा, --“कर्क्कटावस्थिते भानौ दक्षिणायनमुच्यते ।उत्तरायणमप्युक्तं मकरस्थे दिवाकरे
इति ।अयनस्योत्तरस्यादौ मकरं याति भास्करः ।राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम्
”इति विष्णुपुराणोक्ताच्चूडादावयनपरिग्रहःसौरेण ।दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः ।इति
मृगसंक्रान्तितः पूर्व्वं पश्चात्तारादिनान्तरे ।एकवर्षे चतुःपञ्चपलमानक्रमेण तु
षटषष्टिवत्मरानेकदिनं स्यादयनं रवेः ।एवं चतुःपञ्चदिनमयनारम्भणं क्रमात्
व्युत्क्रमेण तद्वत् स्यादुदग्यानं रवेर्ध्रुवम्
कर्क्किसंक्रमणे तद्रदभिती दक्षिणायनम् ।अयनांशक्रमेणैव विषुवारम्भणं तथा
”इति ज्योतिस्तत्त्वम्
तत्र जातस्य फलं यथा, --“याम्यायने यस्य भवेत् प्रसूतिःशठः कठोरः पिशुनस्वभावः ।चतुष्पदाढ्यः कृषिमानहंयु-र्व्वाचामशान्तो मनुजः प्रतापी
”इति कोष्ठीप्रदीपः
*
कर्क्कटसंक्रान्तिः यथा, --“मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।विषुवती तुलामेषे गोलमध्ये तथापराः
”इति तिथ्यादितत्त्वम्
*
अयनचक्रं यथा, --“चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमञ्चेत्करोतियस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूलेनिदध्यात् ।तत्पश्चादारशूले विविधभयकरं शूलपार्श्वे-ऽर्थलाभःसौख्यं स्याच्चक्रगर्भे विविधमुनिमतं विद्धिवामक्रमेण
”इति ज्योतिषम्
(“त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल-विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च ।तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवाना-प्याय्यते सोमोऽम्ललवणमधुराश्च रसा बलवन्तोभवन्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां वलमभिवर्द्धते
”इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये
)