| YouTube Channel

दक्षिणामूर्त्ति (dakSiNAmUrtti)

 
वाचस्पत्यम्
Sanskrit
दक्षिणामूर्त्ति(क)
पु०
दक्षिणा अनुकूला मूर्त्तिरस्य वाकप् संज्ञात्वात् पुंवत् शिवमूर्त्तिभेदे तद्ध्यानादिकंयथा “प्रोद्यच्छाखमहावटद्रुमतले योगासनस्थं प्रभुं प्रत्यक्-तत्त्वबुभुत्सुभिः प्रतिदिशं प्रोद्वीक्ष्यमाणाननम् मुद्रांतर्कमयीं दधानममलं कर्पूरगौरं शिवं हृद्यन्तः कलयेस्कुरन्तमनिशं श्रीदक्षिणामूर्त्तिकम्” “नित्यशो दक्षि-णामूर्त्तिं ध्यायेत् साधकसत्तमः शास्त्रव्याख्यानसामर्थ्यंलभन्ते वत्सरान्तरे” तन्मन्त्रादिकं तन्त्रे दृश्यम् ।ध्यानान्तरं ध्यानशब्दे दृश्यम्