| YouTube Channel

दक्षिणाचारः (dakSiNAcAraH)

 
शब्दकल्पद्रुमः
Sanskrit
दक्षिणाचारः,
पुं,
(दक्षिणोऽप्रतिकूल आचारः ।)आचारविशेषः यथा, --“स्वधर्म्मनिरतो भूत्वा पञ्चतत्त्वेन पूजयेत् ।स एव दक्षिणाचारः शिवोभूत्वा शिवां यजेत्
”इत्याचारभेदतन्त्रम्
(एतदाचारोक्तकर्म्मादिकं वामाचारवत् कठोर-तरं तथाच काशीराजप्रणीतदक्षिणा-चारतन्त्रे ।“दक्षिणाचारतन्त्रोक्तं कर्म्म तच्छुद्धवैदिकम्
”दक्षिणोऽनुकूलः साधुराचारो व्यवहारो यस्य ।शिष्टाचारविशिष्टे, त्रि यथा, महाभारते ।४ २७ ।“दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः
”)