| YouTube Channel

दक्षिणदिक् (dakSiNadik)

 
Wordnet
Sanskrit
Synonyms:
दक्षिणदिक्, याम्या
noun
उत्तर-दिशः विरुद्धा दिक् यस्याः स्वामी यमः इति मन्यते।
मम गृहं दक्षिणदिशि वर्तते।/"प्रगृह्य तु महीपालो जलपूरितम् अञ्जलिम्। दिशं याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्॥ [रामायण २।१०३।२६]"
अमरकोशः
Sanskrit
Word: दक्षिणदिक्
Root: दक्षिणदिक्
Gender: undefined
Number: undefined
Meaning(s):
southern quarter
Shloka(s):
1|3|1|2 प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥ (दिग्वर्गः)
1|3|2|2 अवाग्भवमवाचीनमुदीचीनमुदग्भवम्। (दिग्वर्गः)
Synonym(s):
1|3|1|2 अवाची (अवाची) (स्त्री)
1|3|2|2 अवाङ् (अवाच्) (पुं)
1|3|2|2 अवाक् (अवाच्) (स्त्री)
1|3|2|2 अवाक् (अवाच्) (नपुं)
Related word(s):
परा_अपरासंबन्धः दिक्
स्व_स्वामीसंबन्धः दक्षिणदिशः_स्वामी
जातिः दिक्
अवयव_अवयवीसंबन्धः दक्षिणदिशि_भवम्
अन्यसंबन्धाः दक्षिणदिशि_भवम्
गुण-गुणी-भावः दक्षिणदिशि_भवम्
वाचस्पत्यम्
Sanskrit
दक्षिणदिक् स्त्री दक्षिणा दिक् स्वापेक्षया मेरुतो वि-प्रकृष्टदिशि तदधिपः भौमः र्यथाह“सूर्य्यः सोमः क्षमापुत्रः सैंहिकेयः शनिः शशी ।सौम्यस्त्रिदशमन्त्री प्राच्यादिदिगधीश्वराः” ज्यो० त० ।तत्र बलिनौ ग्रहौ भास्करभूमिजौ यथाहतत्रैव “प्राच्यां भौम्यसुराचार्य्यौ याम्यां भास्करभूमि-जौ प्रत्यक् सौरिरुदीच्यां तु सितेन्दू दिग्बलान्वितौ”तद्दिक्पतिः शक्रः “इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणोमरुत् कुवेर ईशः पतयः पूर्वादीनां दिशां क्रमात्”इत्युक्तेः तद्दिग्वलिनो राशयश्च अजवृषमृगसिंहाः ।“ऐन्द्रे मानुषराशयस्तु पशवो याम्ये सवीर्य्याअलि-र्वारुण्यां बलयुक् तथैव बलिनः पानीयजाश्चोत्तरे” ज्यो०त० उक्तेः तद्दिक्पतिराशवः वृषकन्यामकरराशयःयथाह ज्यो० त० “प्रागादिककुभां नाथा यथासंख्यंप्रदक्षिणम् मेषाद्याराशयो ज्ञेयास्त्रिरावृत्त्या परि-भ्रमात्” तद्दिङ्मुखनक्षत्राणि मघादिसप्तकम् ।“कृत्तिकाद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्”ज्यो० त० उक्तेः दक्षिणदिग्भागस्था देशाश्च कूर्म्मवि-भागशब्दे वृ० सं० १४ अ० उक्ताः “अथ दक्षिणेन लङ्का”इत्युपक्रमे दर्शिताः