दक्षकन्या (dakSakanyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiदक्षकन्या
दक्ष- कन्या -
दुर्गा का विशेषण
Shabdartha Kaustubha
Kannadaदक्षकन्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದಕ್ಷಪ್ರಜಾಪತಿಯ ಹೆಣ್ಣು ಮಕ್ಕಳು
व्युत्पत्तिः - > दक्षस्य कन्याः
प्रयोगाः - > "अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी । सती सती योगविसृष्टदेहा"
उल्लेखाः - > कुमा० १-२१
L R Vaidya
EnglishWordnet
Sanskrit दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
सा देवी यया नैके दैत्याः हताः तथा च या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
नाममाला
Sanskritकाष्ठा, ककुप्, दिक्, आशा, दक्षकन्या, हरित्
काष्ठा ककुब्दिगाशा च दक्षकन्या तथा हरित् ।
तत्पर्यायपरं योज्यं प्राज्ञैः पालगजाम्बरम् ॥ ६१ ॥
verse 0.1.1.61
page 0032
Mahabharata
EnglishDakshakanyā (do.): Kadrū: I, 2521 (Kº).
शब्दकल्पद्रुमः
Sanskritदक्षकन्या, (दक्षस्य प्रजापतेः कन्या ।)दुर्गा । इति त्रिकाण्डशेषः ॥
दक्षप्रजापतेःसुता । ताः पञ्चाशत्सङ्ख्यकाः । तासां नामानियथा, --“सती ज्योतिः स्मृतिः स्वाहा ह्यनुसूया स्वधातथा ।प्रीतिः क्षमा च संभूतिः सन्नतिश्च अरुन्धती ॥
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धाक्रिया मतिः ।बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिस्तथा रतिः ॥
अरुन्धाती वसुर्यामी लवा भानुर्म्मरुत्वती ।सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः ॥
अदितिश्च दितिश्चैव दनुः काला दनायुषा ।सिंहिका सुरसा कद्रुर्विनता सुरभिः स्वसा ॥
क्रोधा इरा च प्रोवा च दक्षकन्याः प्रकीर्त्तिताः ।पञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः ॥
”इति वह्निपुराणे गणभेदनामाध्यायः ॥
(अयं द्वितीयजन्मनि प्राचेतसो भूत्वा षष्टिं कन्याजनयामास । यथा, मत्स्यपुराणे । ५ । १२-१४ ।“ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः ।वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥
प्रादात् स दश धर्म्माय कश्यपाय त्रयोदश ।सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये ॥
द्वे चैव भृगुपुत्त्राय द्वे कृशाश्वाय धीमते ।द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरः ॥
शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः ॥
”एतासां नामानि तत्रैव द्रष्टव्यानि ॥
)
वाचस्पत्यम्
Sanskritदक्षकन्या स्त्री ६ त० । दक्षस्य सुतासु ताश्च षष्टिः । यथाहमत्स्यपु० ५ अ० ।“ततस्तेषु विनष्टेषु षष्टिं कत्याः प्रजापतिः । वै-रिण्यां जनयामास दक्षः प्राचेतसस्तथा । प्रादात् स दशधर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रो-ऽरिष्टनेमये । द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ।द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्” । “तांश्चैवनष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः । षष्टिं ततो-ऽसृजत् कन्यां वैरिण्यामिति नः श्रुतम् । तास्तदा प्रति-जग्राह भार्य्यार्थं कश्यपः प्रभुः । सोमो धर्मश्च कौरव्य ।तथैवान्ये महर्षयः । ददौ स दश धर्माय कश्यपायत्रयोदश । सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने । द्वेचैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा । द्वे कृशाश्वाय वि-दुषे तासां नामानि मे शृणु” हरिवं० ३ अ० । २ सतीना-म्न्यां भवपत्न्यां दुर्गायाञ्च तत्कथा “प्रसूतिं मानवीं दक्षःउपयेमे ह्यजात्मजः । तस्यां ससर्ज्ज दुहितॄः षोडशाम-ललोचनाः । त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः ।पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे” भाग० ४ । १ ।“अथापमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।सती सती योगविसृष्टदेहा कुमा० दक्षसुतादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
