| YouTube Channel

दक्षः (dakSaH)

 
Hindi
Hindi
विशेषज्ञ
Apte Hindi
Hindi
दक्षः
पुं*
- -
विख्यात प्रजापति का नाम
दक्षः
पुं*
- -
मुर्गा
दक्षः
पुं*
- -
आग
दक्षः
पुं*
- -
शिव का बैल
दक्षः
पुं*
- -
बहुत सी प्रेमिकाओं में आसक्त प्रेमी
दक्षः
पुं*
- -
शिव का विशेषण
दक्षः
पुं*
- -
"मानसिक शक्ति, योग्यता, धारिता"
Wordnet
Sanskrit
Synonyms:
प्रतिभावान्, प्रतिभावती, प्रतिभाशाली, धीमान्, धीमती, प्रज्ञः, प्रज्ञा, सुधीः, गुणी, गुणिनी, गुणवान्, गुणवती, दक्षः, दक्षा
noun
प्रतिभायुक्तः।
"अस्माकं प्रयोगशालायां प्रतिभाशालिनाम् अभावः नास्ति।"
Synonyms:
कुक्कुटः, चरणायुधः, नखायुधः, स्वर्णचूडः, ताम्रचूडः, ताम्रशिखी, शिखी, शिखण्डी, शिखण्डिकः, कृकवाकुः, कलविकः, कालज्ञः, उषाकरः, निशावेदी, रात्रिवेदी, यामघोषः, रसास्वनः, सुपर्णः, पूर्णकः, नियोद्धा, विष्किरः, नखरायुधः, वृताक्षः, काहलः, दक्षः, यामनादी, काहलः
noun
नरकुक्कुटी।
"प्रातः कुक्कुटस्य ध्वनिं श्रुत्वा अहं जागृतः।"
Synonyms:
दक्षः
noun
सतेः पिता शिवस्य श्वशुरः एकः प्रजापतिः यस्य महायज्ञे अपमानस्य कारणात् सत्या प्राणत्यागः कृतः।
"दक्षस्य महायज्ञः शिवेन पूर्णतः नष्टः कृतः।"
Synonyms:
दक्षः
noun
पञ्चकान्यकुब्जब्राह्मणेषु एकः
"दक्षस्य उल्लेखः क्षितीश-वंशावली-चरिते वर्तते"
Synonyms:
दक्षः
noun
उशीनरस्य पुत्रः
"दक्षस्य उल्लेखः भागवतपुराणे वर्तते"
Synonyms:
दक्षः
noun
एकः न्यायदाता
"दक्षः याज्ञवल्क्येन परिगणितः"
Synonyms:
दक्षः
noun
गरुडस्य पुत्रः
"दक्षस्य उल्लेखः महाभारते वर्तते"
Synonyms:
दक्षः
noun
एकः प्रजापतिः
"दक्षस्य उल्लेखः महाभारते वर्तते"
Synonyms:
दक्षः
noun
एकः क्षुपः
"दक्षस्य उल्लेखः कोशे वर्तते"
Synonyms:
दक्षः, उष्णः, चतुरः, पेशलः, पटुः, सूत्थानः, अशीतः
noun
निरालस्य व्यक्तिः
"सः दक्षः अस्ति"
Tamil
Tamil
த3க்ஷ: : ஒரு பிரஜாபதியின் பெயர், கோழி, நெருப்பு, கெட்டிக்காரன், சிவன்.
शब्दकल्पद्रुमः
Sanskrit
दक्षः,
पुं,
(दक्षते सृष्टिप्रवृद्धये समर्थो भवतीति ।दक्ष + अच् ।) प्रजापतिविशेषः ब्रह्मणोदक्षिणाङ्गुष्ठाज्जातः ततः प्रभृति मैथुनेनप्रजा जाताः यथा, --“शरीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः ।अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत
”इति मत्स्यपुराणे
“यथा ससर्ज चैवादौ तथैव शृणुत द्बिजाः ! ।यदा तु सृजतस्तस्य देवर्षिगणपन्नगान्
वृद्धिमगमल्लोकस्तदा मैथुनयोगतः ।दक्षः पुत्त्रसहस्राणि पाञ्चजन्यामजीजनत्
”इति तत्रैव --
अस्य भार्य्या स्वायम्भुवमनुकन्या प्रसूतिः अस्यषोडशकन्याः यथा, श्रद्धा मैत्री दया ३शान्तिः तुष्टिः पुष्टिः क्रिया उन्नतिः८ बुद्धिः मेधा १० मूर्त्तिः ११ तितिक्षा १२ह्रीः १३ स्वाहा १४ स्वधा १५ सती १६ ।तस्य त्रिसहस्रपुत्त्राः दक्षप्रजापतिर्द्वितीय-जन्मनि दशप्रचेतसः सुतो भूत्वा षष्ठमन्वन्तरेप्रजासृष्टिञ्चकार असिक्न्यां पत्न्यां षष्टिंकन्या जनयित्वा प्रजापतिभ्यो दत्तवान् ।धर्म्माय दश कश्यपाय सप्तदश चन्द्रायसप्तविंशतिः कृशाश्वाय द्वे भूताय द्वे ।अङ्गिरसे द्वे इति श्रीभागवतम्
*
ताम्रचूडः (यथा, चरके सूत्रस्थाने २७अध्याये ।“धार्त्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ।चटकानाञ्च यानि स्युरण्डानि हितानि
”)मुनिभेदः (यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ।४ ६७ ।“कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।ग्रन्थञ्चकार यद्धृत्वा दक्षः कात्यायनः स्वयम्
”अयं हि धर्म्मशास्त्रप्रयोजकानामन्यतमः यथा, याज्ञवल्क्ये ।“पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः
”)हरवृषः द्रुमभेदः वह्निः इति विश्वः
महेशः इति शब्दरत्नावली
(यथा, महा-भारते १३ १७ ११३ ।“धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः
”विष्णोर्नामविशेषः यथा, महाभारते १३ ।१४९ १११ ।“अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः
”बलम् इति निघण्टुः “दक्षशैघ्र्ये चकारात् वृद्धौ दक्ष गतिहिंसनयोः ।दक्षतिरुत्साहार्थः इति स्कन्दस्वामी असुन् ।शत्रुविजये क्षिप्रो भवत्यनेन हिंस्यन्ते वानेनशत्रवः प्रोत्साहितो वा भवति शत्रुविजये ।”“दक्ष इति सकारान्तं बलनाम अकारान्त-मपि तस्यैवमर्थान्तरे द्रष्टव्यम्
इति तट्टी-कायां देवराजयज्वा यथा, ऋग्वेदे ९५ ।“स दक्षाणां दक्षपतिर्बभूव
”“सोऽग्निर्दक्षाणां सर्व्वेषां बलानां दक्षपति-र्बलाधिपतिर्बभूव ।” इति तद्भाष्ये सायनः
गरुडस्य पुत्त्राणामन्यतमः यथा, महा-भारते १०१ १२ ।“मेघहृत् कुमुदो दक्षः सर्पान्तः सोमभोजनः
”)त्रि, पटुः इति मेदिनी षे, १४
अस्यपर्य्यायः चतुरशब्दे द्रष्टव्यः
(यथा, महा-भारते ७४ ३९ ।“सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रजा-वती ।सा भार्य्या या पतिप्राणा सा भार्य्या यापतिव्रता
”समर्थः यथा, ऋग्वेदे ५९ ।“बृहती इव सूनवे रोदसीगिरो होता मनुष्यो दक्षः
”प्रवृद्धः यथा, तत्रैव १५ ।“युवं दक्षं धृतव्रत मित्रावरण दूळभम्
”“दक्षं प्रवृद्धम् ।” इति तद्भाष्ये सायनः
दक्षिणः अपसव्यम् यथा, महानिर्व्वाणे ।३ ४४ ।“प्राणायामं ततः कुर्य्यान् मूलेन प्रणवेन वा ।मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्व्वति !
”)