| YouTube Channel

दः (daH)

 
शब्दकल्पद्रुमः
Sanskrit
दः,
पुं,
(दै शुद्धौ वा दा दाने + बाहुलकात्कः ।) अचलः दत्तः दाता इति मेदिनीदे,
(दो च्छेदे + डः ।) खण्डनम् इतिशब्दरत्नावली
(यथा, माघे १९ ११४ ।“दाददोदुद्ददुद्दादी दादादोदूददी ददोः ।दुद्दादं दददे दुद्दे ददादद ददोऽददः
”“दद्यते इति दादोदानम् दददाने कर्म्मणि घञ् ।दादं ददातीति दाददो दानप्रदः ।” इत्यादौमल्लिनाथकृतटीकायामर्थविशेषा बोद्धव्याः
)