| YouTube Channel

त्सर (tsara)

 
शब्दसागरः
English
त्सर r. 1st cl. (त्सरति) To proceed fraudulently or crookedly. भ्वा-पर-
सक-सेट्
Wilson
English
त्सर r. 1st cl. (त्सरति) To proceed fraudulently or crookedly.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
त्सर्
मूलधातुः:
त्सर
धात्वर्थः:
छद्मगतौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
त्सरति
धातुप्रदीपः
Sanskrit
त्सरँ त्सर छद्मगतौ
- त्सरति तत्सार, तत्सरतुः, तत्सरुः। अत्सारीत् ।त्सरुः खड्गादि मुष्टिः। अकर्षादित्वात् त्सरुकः ।। 555।।
शब्दकल्पद्रुमः
Sanskrit
त्सर, छद्मगतौ इति कविकल्पद्रुमः
(भ्वां-परं-अकं-सकं च-सेट् ।) दन्त्यवर्गाद्यस्याधो-दन्त्यसकारः त्सरति धूर्त्तः छलेन गच्छती-त्यर्थः इति दुर्गादासः
(यथा, अथर्व्ववेदे ।८ ।“यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सतिजाग्रतीम्
”)
वाचस्पत्यम्
Sanskrit
त्सर छद्मगतौ
भ्वा०
पर०
सक०
सेट् त्सरति त्सारीत् ।“यस्त्रा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम्” अथ०८ “यो हैनं पाप्मा मायया त्सरति हैनं सो-ऽभिभवति” शत० ब्रा० ११ १२
क्षीरतरङ्गिणी
Sanskrit
त्सरँ त्सर छद्मगतौ
- छद्मप्रकारार्थे त्सरति भृमृशी (उ017) इत्युः-त्सरुः खड्गादिमुष्टिः त्सद्म इत्यपीति कौशिकः त्सद्मति 543
धातुवृत्तिः
Sanskrit
त्सरँ त्सर (अर्थः) छद्मगतौ
(त्सरति तत्सार तत्सरतुः त्सरिता त्सरिता अत्सारीत् ) "अतो ल्रान्तस्य'' इति वृद्धिः ) तित्सरिषति तात्सर्यते तात्सरोति तात्सर्त्ति अतात्सः स्मरुः) "भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः'' इति उप्रत्ययः त्सरौ कुशलः (त्सरुकः) "आकर्षादिभ्यः कन्'' इति सप्तम्यन्तात् कुशल इत्यर्थे कन् 547
कृदन्तरूपमाला
Sanskrit
1 {@“त्सर च्छद्मगतौ”@} 2 त्सरकः-रिका, त्सारकः-रिका, तित्सरिषकः-षिका, तात्सरकः-रिका
3 इत्युप्रत्ययः।
त्सरुः = खड्गमुष्टिः।]] त्सरुः इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्मरतिवत् 4 ज्ञेयानि।
5 तित्सरिषा 6।
प्रासङ्गिक्यः
01
=>
(८०७)
02
=>
(१-भ्वादिः-५५४। अक। सेट्। पर।)
03
=>
[[१। ‘भृमृशीतृचरित्सरि--’ [द। उ। १। ९२]
04
=>
(२६८)
05
=>
[[२। सन्नन्तात् स्त्रियां भावादौ, ‘अ प्रत्ययात्’ (३-३-१०२) इत्यकारप्रत्ययः।]]
06
=>
[[आ। ‘अखोरधौरत्पतगेन्द्रवाहनं स्वसेविनां तित्सरिषां निराडिनम्।’ धा। का। १। ७१।]]