| YouTube Channel

त्विष (tviSa)

 
शब्दसागरः
English
त्विष r. 1st cl. (औ) औत्विष (त्विषति-ते) To shine. With अव prefixed, 1. To
give.
2. To dwell. भ्वा-उभ-अक-अनिट्
Wilson
English
त्विष r. 1st cl. (औ) औत्विष (त्वेषति) To shine.
With अव prefixed,
1 To give.
2 To dwell.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
त्विष्
मूलधातुः:
त्विष
धात्वर्थः:
दीप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
त्वेषति-ते
धातुप्रदीपः
Sanskrit
त्विषँ त्विष दीप्तौ
- त्वेषति त्वेषते त्वेष्टा त्विट् अवपूर्वो दाननिरसनयोः अवत्वेषति अवत्वेषते ।। 1009 ।।
शब्दकल्पद्रुमः
Sanskrit
त्विष, भासे इति कविकल्पद्रुमः
(भ्वां-उभं-दाने-सकं-अन्यत्र अकं-अनिट् ।) औ, अत्विक्षत् ञ, त्वेषति त्वेषते भासो दीप्तिः ।अवान्निवासे दाने त्विषौ अनुवर्त्तते औ, अवात्विक्षत् ञ, अवत्वेषति अवत्वेषते जनोनिवसति ददाति दीप्यते वा इत्यर्थः इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
त्विष दीप्तौ
भ्वा०
उभ०
अक० अनिट् त्विषति ते अत्वि-क्षत् अत्विक्षत तित्वेष तित्वषे त्विक्षीष्ट “ओजस्त-दस्य तित्विषे” ऋ० “समच्यन्त वृजनातित्विष्वन्त यत्” ऋ० ५४ १२ “अग्निरिव मन्यो!त्विषितः सहस्व” ऋ० १० ८४
क्षीरतरङ्गिणी
Sanskrit
त्विषँ त्विषा दीप्तौ
- त्वेषते, त्वेषति त्विट् नप्तृनेष्टृ (उ0 895) इति त्वष्टा अर्कः अवपूर्वो दाननिरसनयोश्चेति दुर्गः निरसनमपाकरणम् अवत्वेषति गां द्विजाय, अवत्वेषते मलम् 971
धातुवृत्तिः
Sanskrit
त्विषँ त्विष (अर्थः) दीप्तौ
( त्वेषति तित्वेष तित्विषतुः तित्वेषिथ तित्विषिव ) क्रादिनियमादिट् ( त्वेष्टा त्वेक्ष्यति त्वेषतु अत्वेषत् आशिषि त्विष्यात् अत्विक्षत् अत्विक्षाताम् ) "शल इगुपधादनिटः क्सः'' ( त्वेषते तित्विषे त्वेष्टासे त्वेक्ष्यते त्वेषताम् अत्वेषत त्वेषेत त्विक्षीष्ट अत्विक्षत अत्विक्षाताम्, अत्विक्षन्त ) "क्सस्याचि'' इत्यलोपः ( तित्विक्षति तित्विक्षते तेष्वेष्टि तेत्विष्टः ( त्वेषयति ) अतित्विषत् त्वष्टा ) "त्विषेर्दवतायामकारश्चोपधाया'' इति तृन् उपधाया अत्वं, त्वष्टारौ " "ऋतोऽङि'' इति गुणे "अप्तृन्'' इत्यादिना दीर्घोऽसंबुद्धौ सर्वनामस्थाने तृन्नन्तत्वादेव सिद्धे नप्त्रादीनां ग्रहणं व्युप्तत्तिपक्ष नियमार्थं संज्ञाशब्दानामेषामेवेति वृत्तौ त्वष्टुरिदं (त्वाष्ट्रम्) अचामादेरचो वृद्धिरन्त्यलक्षणां वृद्धिं बाधतइति वृत्तौ, ( त्विट् ) संपदादित्वात् क्विप् अवपूर्वोऽयं दाननिरसनयोरिति मैत्रेयादायः 981
कृदन्तरूपमाला
Sanskrit
1 {@“त्विष दीप्तौ”@} 2 त्वेषकः-षिका, त्वेषकः-षिका, 3 तित्विक्षकः-क्षिका, 4 तेत्विषकः-षिका
त्वेष्टा-ष्ट्री, त्वेषयिता-त्री, तित्विक्षिता-त्री, तेत्विषिता-त्री
5 त्वेषन्-न्ती, त्वेषयन्-न्ती, तित्विक्षन्-न्ती
-- 6 त्वेक्ष्यन्-न्ती-ती, त्वेषयिष्यन्-न्ती-ती, तित्विक्षिष्यन्-न्ती-ती
-- त्वेषमाणः, त्वेषयमाणः, तित्विक्षमाणः, तेत्विष्यमाणः
त्वेक्ष्यमाणः, त्वेषयिष्यमाणः, तित्विक्षिष्यमाणः, तेत्विषिष्यमाणः
7 त्विट्-त्विड्-त्विषौ-त्विषः
-- -- त्विष्टम्-त्विष्टः-त्विष्टवान्, त्वेषितः, तित्विक्षितः, तेत्विषितः-तवान्
त्विषः, 8 त्वष्टा 9, त्वेषः, तित्विक्षुः, तेत्विषः
त्वेष्टव्यम्, त्वेषयितव्यम्, तित्विक्षितव्यम्, तेत्विषितव्यम्
त्वेषणीयम्, त्वेषणीयम्, तित्विक्षणीयम्, तेत्विषणीयम्
त्वेष्यम्, त्वेष्यम्, तित्विक्ष्यम्, तेत्विष्यम्
ईषत्त्वेषः-दुस्त्वेषः-सुत्वेषः
-- -- त्विष्यमाणः, त्वेष्यमाणः, तित्विक्ष्यमाणः, तेत्विष्यमाणः
त्वेषः, त्वेषः, तित्विक्षः, तेत्विषः
त्वेष्टुम्, त्वेषयितुम्, तित्विक्षितुम्, तेत्विषितुम्
त्विष्टिः, 10 त्विट्, त्वेषणा, तित्विक्षा, तेत्विषा
11 त्वेषणम्, त्वेषणम्, तित्विक्षणम्, तेत्विषणम्
त्विष्ट्वा, त्वेषयित्वा, तित्विक्षित्वा, तेत्विषित्वा
प्रत्विष्य, प्रत्वेष्य, प्रतित्विक्ष्य, प्रतेत्विष्य
त्वेषम् २, त्विष्ट्वा २, त्वेषम् २, त्वेषयित्वा २, तित्विक्षम् २, तित्विक्षित्वा २, तेत्विषम्
तेत्विषित्वा २।
प्रासङ्गिक्यः
01
=>
(८०६)
02
=>
(१-भ्वादिः-१००१। अक। अनि। उभ।)
03
=>
[[२। धातोरनिट्त्वेन, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, गुणनिषेधे, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे, षत्वे रूपम्। एवं सन्नन्ते सर्वत्रोह्यम्।]]
04
=>
[[३। यङन्ते, अभ्यास्य ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणः सर्वत्र ज्ञेयः।]]
05
=>
[[आ। ‘त्वेषन्मुखा इष्टिनिवापहीनां कष्टां पुरीं प्रापुरुदूढदर्पाः।।’ धा। का। २। ४२।]]
06
=>
[[४। लृटः स्यप्रत्यये, ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे षत्वे रूपम्।]]
07
=>
[[५। ‘झलां जशोऽन्ते’ (८-२-३९) इति जश्त्वे चर्त्वविकल्पे रूपम्।]]
08
=>
[[६। ‘तृन्’ (३-२-१३५) इति ताच्छीलिके तृनि, ‘त्विषेर्देवतायामकारश्चोपधायाः’ (वा। ३-२-१३५) इति वचनात् अत्वं भवति। त्वष्टा = सूर्यः।]]
09
=>
[[B। ‘त्वष्टुः सदाभ्यासगूहीतशिल्पविज्ञानसम्पत्प्रसरस्य सीमा।’ शि। व। ३। ३५।]]
10
=>
[[७। ‘सम्पदादिभ्यः क्विप्’ (वा। ३-३-९४) इति भावे क्विप् स्त्रियाम्।]]
11
=>
[पृष्ठम्०७१३+ २५]