| YouTube Channel

त्वः (tvaH)

 
शब्दकल्पद्रुमः
Sanskrit
त्वः, त्रि, (तनोति विस्तारयतीति तन + “तनो-तेरनश्च वः ।” उणां ६३ इति चात्क्विप् अनश्च वः आगमानित्यत्वात् तुग्वै-कल्पिकः ।) भिन्नः अन्यः इत्यमरः ।१ ८२
(एकः इति निरुक्तिः
यथा, ऋग्वेदे १० ७१ ।“उत त्वः पश्यन्न ददर्श वात्तमुत त्वः शृण्वन्नशृणोत्येनाम् ।उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशतीसुवासाः
”“त्वशब्द एकवाची एकः उतशब्दोऽप्यर्थे ।पश्यन्नपि मनसा पर्य्यालोचयन्नपि वायं ददर्श ।दर्शनफलाभावान्न पश्यति त्व एकः शृण्वन्न-प्येनां वाचं शृणोति श्रवणफलाभावात् ।इत्यनेनार्धेनाविद्वानभिहितः
इति तद्भाष्येसायनः
)