| YouTube Channel

त्र्यूषण (tryUSaNa)

 
Monier Williams Cologne
English
त्र्य्—ऊषण
n.
=
त्रि-कटु,
Suśr.
Shabdartha Kaustubha
Kannada
त्र्यूषण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಶುಂಠಿ ಹಿಪ್ಪಲಿ ಮತ್ತು ಮೆಣಸು
व्युत्पत्तिः - > त्रयाणामूषणानां समाहारः
अभिधानचिन्तामणिः
Sanskrit
--source--
त्रिकटु त्र्यूषणं व्योषमजाजी जीरकः कणा
-wordlist-
त्रिकटु (क्ली), त्र्यूषण (क्ली), व्योष (क्ली), अजाजिन् (पुं), जीरक (पुंक्ली), कणा (स्त्री)
अभिधानरत्नमाला
Sanskrit
त्रिकटु
त्रिकटु, त्र्यूषण, व्योष
त्रिकटु त्र्यूषणं व्योषं हिङ्गु रामठ उच्यते ६१७
verse 2.1.1.617
page 0069
शब्दकल्पद्रुमः
Sanskrit
त्र्यूषणं,
क्ली,
(त्रयाणां ऊषणानां पिप्पलीमरिच-शुण्ठीनां समाहारः ।) त्र्युषणम् इत्यमर-टीकायां भरतः
(“पिप्पलीमरिचं शुण्ठीत्रयमेतद्विमिश्रितम् ।त्रिकटु त्र्यूषणं व्योषं कटुत्रयमथोच्यते
”इति वैद्यकपरिभाषायाम्
अस्य गुणा यथा, --“त्र्यूषणं दीपनं हन्ति श्वासकासत्वगामयान् ।गुल्ममेहकफस्थौल्यमेदश्लीपदपीनसान्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)(घृतविशेषः यथा, चरके चिकित्सास्थाने२२ अध्याधे ।“त्र्यूषणां त्रिफलां द्राक्षां काश्मर्य्याणि परूषकम् ।द्वे पाठे सरलं व्याघ्रीं स्वगुप्तां चित्रकं शटीम्
ब्राह्मीं तामलकीं मेदां काकनासां शतावरीम् ।त्रिकण्टकां विदारीञ्च पिष्ट्वा कर्षसमं घृतात्
प्रस्थं चतुर्गुणं क्षीरं सिद्धं कासहरं पिबेत् ।ज्वरगुल्भारुचिप्लीहशिरोहृत्पार्श्वशूलनुत्
कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम् ।त्र्यूषणं नाम विख्यातमेतद्घृतमनुत्तमम्
”)
वाचस्पत्यम्
Sanskrit
त्र्यु(त्र्यू)षण
न०
त्रयाणामुषणानां समाहारः पृषो० वादीर्घः मिलितशुण्ठोपिप्पलीमरिचत्रिके अमरः भर-तस्तु दीर्घमध्यं पपाठ