| YouTube Channel

त्र्याहिकः (tryAhikaH)

 
शब्दकल्पद्रुमः
Sanskrit
त्र्याहिकः, त्रि, (त्र्यहे भवः त्र्यह + ठञ् ।)तृतीयेऽह्नि भवः यथा, ऐकाहिकद्ब्याहिक-त्र्याहिकचातुर्थिकसततज्वरविषमज्वर इत्याद्य-पराजितास्तोत्रम्
(“ऐकाहिको द्ब्याहिकश्च त्र्याहिकश्च तथापरः ।वेलाज्वरश्चतुर्थोऽपि विजानीयाद्विचक्षणः
”इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये
अस्यौषधं यथा, --“रसेन गन्धं शङ्खञ्च शिखिग्रीवञ्च पादिकम् ।गोजिह्वया जयन्त्या तण्डुलीयैश्च भावयेत्
प्रत्येकं सप्तसप्ताथ शुष्कं गुञ्जाचतुष्टयम् ।जरणेन घृतेनाद्यात् त्र्याहिकज्वरशान्तये
”इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे
)