त्र्यार्षेय (tryArSeya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English त्र्यार्षेय tryArSeya having 3 sacred ancestors
त्र्यार्षेय tryArSeya blind
त्र्यार्षेय tryArSeya deaf
त्र्यार्षेय tryArSeya a dumb person
Monier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritत्र्यार्षेय त्रयः आर्षेयाः ऋषयः यत्र । त्रिप्रवरे १ गोत्रभेदेआर्षेयशब्दे दृश्यम् । ऋषेरयम् ढक् आर्षेयः ऋषि-धर्मः त्रयः आर्षेया धर्मायेषाम् । २ अन्धबधिरमूकेषुतेषाञ्च यथा ऋषिधर्मवत्त्वंतथा समर्थितं तत्त्वबोधिन्याम्यथा “एतन्न्यायमूलक एव तिर्य्यक्पङ्गुत्य्रार्थेयदेवतानांयागेषु नाधिकार इति प्रवादः । त्र्यार्षेयास्त्रय ऋषि-धर्मा अन्धत्वबधिरत्वमूकत्वानि येषां ते ऋषीणां हि पर-द्रव्यदर्शनेन तत्र रागोत्पत्तिसम्भावनया चक्षुर्नि-मीलनेनान्धत्वं, परनिन्दाश्रवणशङ्कया श्रोत्रनिग्रहेणबधिरत्वं मिथ्याकथनशङ्कया वाक्यसंयमनान्मौक्यम्” ।अन्धादीनां कर्म्मानधिकारे हेतुश्च “मनुष्याणां वा आर-म्भसामर्थ्यात्” ४ “अङ्गहीनाश्रोत्रियषण्ढशूद्रवर्जम्” कात्या०श्रौ० १ । १ । ५ । सूत्राभ्यां निरूपितः अत्र कर्कव्याख्या“अङ्गहीनाश्रोत्रियषण्ढशूद्रान् वर्जयित्वा मनुष्याणा-मधिकारः कर्मसु भवति । मनुष्या अपि ये अङ्गहीनाअङ्गेने चक्षुरादिना हीना अन्धपङ्गुमूकवधिरादयःअश्रोत्रिया अनधीतवेदाः षण्ढा नपुंसकाः शूद्राश्चनैतेषामधिकार इत्यर्थः । आरम्भसामर्थ्यादित्यत्राप्यनु-वर्त्तते न चैतेऽङ्गहीनादयो यथाश्रुतं कर्मारब्धुं कर्तुंशक्रुवन्ति तद्यथा न ह्यन्ध आज्यावेक्षणं कर्तुंशक्नोति मूकश्च मन्त्रीच्चारणम्, पङ्गुश्च विष्णुक्रमम् ।बधिरश्च प्रैषश्रवणम् अनधीतवेदोऽश्रोत्रिय इत्युच्यतेस च किमपि मन्त्रसाध्यं कर्तुं न शक्रोति षण्ढो नपुं-सकः तस्याप्यनधीतवेदत्वादद्रव्यत्वादशुचित्वाच्च नाधि-कारः शूद्रस्य चानधीतवेदत्वादनधिकारः । आज्यावेक्षणा-भिश्च विना कर्मणो वैगुण्यं भवत्येव । ननूक्तम्अशक्याङ्गरहितकर्मानुष्ठानादधिकारो भविष्यतीति ।अत्रोच्यते । भवेदेवं यदि आज्यमवेक्षत इत्यादीन्यङ्ग-वाक्यानि स्वातन्त्र्येण पुरुषैः सम्बध्येरन् प्रधानवाक्य-शेषत्वात्तेषाम् । तदङ्गयुक्तेन प्रधानवाक्येन तदङ्गयुक्तःक्रतुः पुरुषैः सम्बध्यमानोऽसमर्थान् परित्यज्य समर्थान्प्रतिज्ञायते तेनान्धस्य क्रतुरेवाविहितो न त्वाज्या-वेक्षणमेवाविहितमितरच्च विहितमिति मन्तव्यम् । न चप्रधानवाक्यविरोधः सर्वाधिकारानिश्चयात् विशेष-भावाद्धि सर्वाधिकारः स्यात् अस्ति च विशेषः आरम्भसामर्थ्यम् अतः समर्थानामेवाधिकारः । यत्र तु प्रधान-वाक्यविरोधो यावज्जीवं यजेतेत्यादौ तत्र यथाशक्ति-प्रयोगादपि फलं भवति तदविरोधे तु सर्वाङ्गयुक्त-कर्मानुष्ठानादेव फलम् । ननु आरम्भसामर्थ्यादित्यनेनैवगवादीनामिवान्धादीनामप्यधिकाराभावसिद्धेः किमर्थंपुनरङ्गहीनादिवर्जमित्युक्तम् उच्यते नियमार्थम् एतेषा-मेवानधिकारो न निर्धनस्य तस्य चाधिकारो भवत्येवन त्वारम्भसामर्थ्याभावादनधिकारः अतो निर्धनोऽपिक्रत्वर्थं धनमर्जनादिना सम्पाद्यावश्यं यजेतेति । एव-मन्धादिरपि यद्योषधिशस्त्रादिनान्धत्वादिकं स्फोटयितुंशक्नोति तस्याप्यधिकारो भवत्य व पूर्वमनङ्गहीनत्वाव-स्थायामाहिताग्निश्चेत् पश्चाद्रोगादिनाङ्गवैकल्ये जातेकाम्येष्वधिकारो न भवति नित्येषु तु यथाशक्ति कुर्व-न्नधिक्रियत एव अङ्गवैकल्ये सति अग्न्याधेयं न भवत्येव”त्रीणि आर्षेयाणि यस्य । ३ त्रिगोत्रोत्पन्ने माधवः ।अत्रेदमभिधीयते तत्त्वबोधिन्याम् त्र्यार्षेयशब्दस्यान्धादि-परत्वकल्पनं सूत्रभाष्यविरुद्धम् । तथाहि “अङ्गहोनश्चतद्धर्म्मा” ६ । १ । ४१ । जै० सू० । “अग्निहीत्रादिषु एवाङ्ग-हीनं प्रति सन्देहः किम् असावधिक्रियते, उत न इति ।तत्राप्यधिकरणातिदेशः । असमर्थः इति कृत्वा पूर्वः पक्षःशक्तेर्विद्यमानत्वात् उत्तरः । तदिदम् अभिधीयतेअङ्गहीनश्च तद्धर्मा । किंधर्मा अद्रव्यधर्मा” शव० भा० ।“उत्पत्तौ नित्यसंयोगात्” जै० ६ । १ । ४२ “यस्य तुअप्रतिसमाधेयमङ्गवैकल्यं तं प्रति विचारः किं अधि-क्रियते न, इति पूर्वाधिकरणेन अधिक्रियते इति प्राप्तेब्रूमः न अधिक्रियते इति । कुतः? शक्त्यभावात्न असौ केनचित् अपि प्रकारेण शक्तोति यष्टुम्, तस्मात्तस्य अधिकारो न गम्यते । ननु यत् शक्नोति तत्रअधिक्रियते इति चक्षुर्विकलो विना आज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनामनधिकारः इतियदि हि तं प्रति निर्दिश्येत ततो विकलोऽप्यधिक्रियतेक्रतुम् प्रति । एषाम् उपदेशः प्रकरणाविशेषात् पुरुषस्यच आख्यातेन अनभिधानात् इति उक्तमेतत् । “विधि-र्वा संयोगान्तरात् (३ । ४ । १३ ) इत्यत्र । तैश्च विनाविगुणं कर्म प्रयुक्तमपि न फलं साधयेत् । तस्मात् तस्यअनधिकारः” भा० । “अत्रार्षेयस्य स न स्यात्” जै०६ । १ । ४३“दर्शपूर्णमासयोः श्रूयते, “आर्षेयं वृणीते एकं वृणीतेद्वौ वृणीते त्रीन् वृणीते न चतुरो वृणीते पञ्चातिवृणीते इति । तत्र सन्देहः किम् अत्र्यार्षेयस्य अधि-कारः उत न इति किं प्राप्तम् । अत्र्यार्षेयोऽप्यधिक्रियते” इति कुतः आर्षेयं वृणीते इति सामान्यवचनम्तस्मात् एकं वरिष्यति द्वौ वा तच्च दर्शयति एकंवृणीते इति तथा प्रतिषेधति न चतुरो वृणीते इति ।न हि अप्राप्तस्य प्रतिषेधोऽवकल्पते । तस्मात् अत्र्याषेयोऽप्यधिक्रियेत ।एवं प्राप्ते ब्रूमः यो न त्र्यार्षेयः स न अधिक्रियते ।कुतः? त्रीन् वृणीते इति विशेषवचनात् विधिश्च अ-प्राप्तत्वात् । ननु एकं वृणीते इत्यपि विशेषवचनमस्ति ।न इत्युच्यते, विधायिकाया विभक्तेरभावात् । ननुस्तुत्या विधास्यन्ते यथा त्रीन् वृणीत इति । उच्यतेत्रयाणामेव स्तुतिः सा त्रित्वं विधास्यति । एकं वृणीतेइत्यवयुत्यवादोऽयं त्रयाणामेव, तत्रापि त्रित्वमेव श्रूयतेविधातुम् । एवम् एकवाक्येन विधानं भविष्यतिइति । न चतुरो वृणोते न पञ्चातिवृणीते इतिनित्यानुवादो भविष्यति । तस्मात् त्र्यार्षेयस्य अधिकारोनान्यस्य इति” शव० भा० । न्यायमालायां माधवेस्तु “ऋषि-र्गोत्रप्रवर्त्तकः कश्यपभरद्वाजादिस्तस्य सम्बन्ध आर्षेयस्तंवृणीते उच्चारयति कश्यपगोत्रोऽहं भरद्वाजगोत्रोऽह-भिति एवम् उपमन्युवशिष्ठमोत्रोऽहमिति द्विगोत्रोच्चार-णम् । आङ्गिरसवार्हस्पत्यभरद्वाजगोत्रोऽहमिति त्रि-गोत्रोच्चारणम्” । एवञ्च सूत्रभाष्यादिग्रन्थेषु त्र्या-र्षेयशब्दस्य अन्यार्थपरत्वात् जात्यन्धादेः सूत्रान्तरेणअनधिकारस्य प्रतिपादनात् त्र्यार्षेयशब्दस्य न अन्धादि-परत्वमिति सुधीभिर्भाव्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
