| YouTube Channel

त्र्यहैहिकः (tryahaihikaH)

 
शब्दकल्पद्रुमः
Sanskrit
त्र्यहैहिकः, त्रि, (ईहायां चेष्टायां भवमैहिकंघनम् “तत्र भवः ।” ५३ इतिठञ् त्र्यहे दिनत्रये पर्य्याप्तं ऐहिकं धनंयस्य ।) दिनत्रयनिर्व्वाहोचितधनयुक्तः यथा, “कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।त्र्यहैहिको षापि भवेदश्वस्तनिक एव वा
”इति मानवे
“कुशूलधान्यक इति कुशूलो व्रीह्यागारंस्यादित्याभिधानिकाः इष्टकादिनिर्म्मितागार-धान्यसञ्चयो भवेत् अत्र कालविशेषापेक्षायाम् ।यस्य त्रैवार्षिकं भक्तं पर्य्याप्तं भृत्यवृत्तये ।अधिकं वापि विद्येत सोमं पातुमर्हति
इति मनूक्त एव कालो ग्राह्यः तेन नित्य-नैमित्तिकधर्म्मकृत्यपोव्यवर्गसहितस्य गृहिणोयावता धान्यादिधनेन वर्षत्रयं समथिकं वानिर्व्वाहो भवति तावद्धनः कुशूलधान्यकउच्यते वषनिर्व्वाहोचितधान्यादिधनः कुम्भी-धान्यः प्राक् सौमिकीः क्रियाः कुर्य्यात्यस्यान्नं वार्षिकं भवेदिति याज्ञ्यवल्क्येन गृह-स्थस्य वार्षिकसञ्चयाभ्यनुज्ञानात् मनुरपियदा वानप्रस्थस्यैव समानिचय एव वेत्यनेनसमासञ्चयं वक्ष्यति तदपेक्षया बहुपोष्यवर्गस्यगृहिणः समुचितः संवत्सरसञ्चयः मेधा-तिथिस्तु यावता धान्यादिधनेन बहुभृत्य-दारादिमतस्त्रिसंवत्सरस्थितिर्भवति तावत् सुव-र्णादिधनवानपि कुशूलधान्यक इत्यभिधायकुम्भी उष्ट्रिका षाण्माषिकधान्यादिनिचयःकुम्भीधान्यक इति व्याख्यातवान् गोविन्द-राजस्तु कुशूलधान्यक इत्येतद्व्याचक्ष्य कोष्ठ-प्रमाणधान्यसञ्चयो वा स्यात् द्बादशाह-मात्रपर्य्याप्तधनः कुम्भीधान्यक इत्येतद्ब्याचष्टेउष्ट्रिकाप्रमाणधान्यादिसञ्चयो वा षडहमात्र-पर्य्याप्तधनः ।द्वादशाहं कुशूलेन वृत्तिः कुम्भ्या दिनानि षट् ।इमाममूलां गोविन्दराजोक्तिं नानुरुन्धहे ।इहा चेष्टा तस्यां भवं ऐहिकं त्र्यहपर्य्याप्तमैहिकंधनं यस्य त्र्यहैहिकः तथा वा स्यात् दिन-त्रयनिर्व्वाहोचितधन इत्यर्थः श्वोभवं श्वस्तनंभक्तं तदस्यास्तीति मत्वर्थीयमिकं कृत्वा नञ्समासः तथा वा भवेत् ।” इति कुल्लूकभट्टः