| YouTube Channel

त्र्यमृतयोग (tryamRtayoga)

 
वाचस्पत्यम्
Sanskrit
त्र्यमृतयोग
पु०
त्रयाणां तिथिवारनक्षत्राणाममृततुल्योयोगः तिथिनक्षत्रवारभेदानां योगभेदे योगःज्यो० उक्तो यथा “नन्दा भौमार्कवारे श्रवणशतभिषार्द्रान्त्य-चित्राखिमूलासार्पैर्भद्रा समेता, शशिनि भृगुसुते फल्-गुयुग्भाद्रयुग्मैः सोम्याहे वै जया स्यान्मृगगुरुहरिभेन्द्रा-श्वियाम्याभिजिद्भिर्जीवे रिक्ता विश्वादितिवरुणविशा-स्वानुराधामघाभिः सौरे पूर्श्वा धनिष्ठाकरकमलजन्मर्क्ष-युक्ता यदि स्याद् योगं प्राछस्त्रिपूर्वं सततशुभकरं चा-मृताख्यं मुनीन्द्राः”