| YouTube Channel

त्रेतायुगं (tretAyugaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रेतायुगं,
क्ली,
(त्रेतैव युगम् ।) द्बितीययुगम् ।तस्योत्पत्त्यादि यथा, --“कार्त्तिकशुक्लनवम्यां सोमवारे त्रेतायुगोत्पत्तिः ।तत्र अवतारत्रयम् वामनपरशुरामंश्रीराम-चन्द्राः पुण्यं त्रिपादम् पापमेकपादम् ।पुष्करनामकं तीर्थम् साग्निको ब्राह्मणः ।अस्थिगताः प्राणाः चतुर्द्दशहस्तपरिमितोमानवदेहः दशसहस्रवर्षं परमायुः व्यव-हार्य्यं रौप्यपात्रम् तद्युगाब्दाः १२९६००० ।तत्र राजानः सूर्य्यवंशीयबाहुकसगरांशुमदस-मञ्जसदिलीपभगीरथाजदशरथश्रीरामचन्द्रकुशी-लवा एते चक्रवर्त्तिनः तल्लक्षणम् ।दानधर्म्मरता नित्यं तपस्या तीर्थदर्शनम् ।अग्निहोत्रपरा लोका राजानो यज्ञकारिणः
तत्र तारकब्रह्मनाम ।रामनारायणानन्त मुकुन्द मधुसूदन ।कृष्ण केशव कंसारे हरे वैकुण्ठ वामन !
”इति मुद्राङ्कितपञ्जिकातः संगृहीतम्