त्री (trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“अण शब्दार्थः”@} 2 ‘अणेरणति शब्दार्थे, प्राणते त्वण्यते श्यनि।’ 3 इति देवः।
आणकः-णिका, आणकः-णिका, अणिणिषकः-षिका
अणिता-त्री, आणयिता-त्री, अणिणिषिता, त्री
अणन् 4 -न्ती, आणयन्-न्ती, अणिणिषन्-न्ती
अणिष्यन्-ती-न्ती, आणयिष्यन्-ती-न्ती, अणिणिषिष्यन्-ती-न्ती
आणयमानः, आणयिष्यमाणः
आण् 5 आणौ-आणः
अणितम्-तः-तवान्, आणितम्-तः-तवान्, अणिणिषितम्-तः-तवान्
अणः, प्राणः, आनः ध्वाङ्क्षाणी, 6 अणिणिषुः, आणिणयिषुः
7 अणितव्यम्, आणयितव्यम्, अणिणिषितव्यम्
अणनीयम्, आणनीयम्, अणिणिषणीयम्
आण्यम्, आण्यम्, अणिणिष्यम्
ईषदणः-दुरणः-स्वणः
अण्यमानः, आण्यमानः, अणिणिष्यमाणः
आणः, आणः, अणिणिषः
अणितुम्, आणयितुम्, अणिणिषितुम्
8 आण्टिः, आणना, अणिणिषा, आणिणयिषा
अणनम्, आणनम्, अणिणिषणम्
अणित्वा, आणयित्वा, अणिणिषित्वा
प्राण्य, प्राण्य, समणिणिष्य
आणम् २ अणित्वा २ आणम् २, आणयित्वा २, अणिणिषम् २
अणिणिषित्वा २
01 (१७)
02 (१-भ्वादिः ४४४-अक। से-पर।)
03 (९२)
04 [[आ। ‘अणद्दिशः केलिरणैर्मनोज्ञया वाण्या भणन्तो मणिभूषणोत्कणाः। वनात् कुमाराः क्वणिताग्र्यवेणवो व्रणद्विषा- णभ्रणिताभ्रमाययुः।। धा। का १-५८।’]]
05 [[१। ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६-४-१५) इति दीर्घः।]]
06 [[२। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः।]]
07 [पृष्ठम्००१६+ २४]
08 [[१। ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ष्टुत्वम्।]]
1 {@“अद भक्षणे”@} 2 आदकः-दिका, आदकः-दिका, 3 जिघत्सकः-त्सिका
4 अत्ता-त्री, आदयिता-त्री, जिघत्सिता, त्री
5 अदन्-ती, आदयन्-न्ती, जिघत्सन्-न्ती
अत्स्यन्-ती-न्ती, आदयिष्यन्-ती-न्ती, जिघत्सिष्यन्-ती-न्ती
6 आ 7 दयमानः, आदयिष्यमाणः
सस्या 8 त्, आमात्, क्रव्यात् 9 10, क्रव्या 11 दः, प्रा 12 णात्, आमिषा 13 दः
14 जग्धम्-ग्धः-ग्धवान्, 15 अन्नम्-न्नवान्
आदितम्-तः, जिघत्सितम्-तः-तवान्, 16 घसः, अन्ना 17 दी, पुत्रादिनी, आदिवान्, जक्षि 18 वान्, अद् 19 मरः, जिघत् 20 सुः, अत्तव्यम्, आदयितव्यम्, जिघत्सितव्यम्
अदनीयम्, आदनीयम्, जिघत्सनीयम्
आद्यम्, आद्यम्, जिघत्स्यम्
ईषददः-दुरदः-स्वदः
अद्यमानः, आद्यमानः, जिघत्स्यमानः
21 घासः, घसः, 22 न्यादः 23, निघसः, आदः, 24 संघसः 25, प्रघसः, जिघत्सः
26 अत्तुम्-आदको 27, आदयितुम्, जिघत्सितुम्
28 अदनम्, आदनम्, जिघत्सनम्
जग्धिः, आदना, जिघत्सा, जिघत्सयिषा
जग्ध्वा, आदयित्वा, जिघत्सित्वा
प्रजग्ध्य, समाद्य, प्रजिघत्स्य, आदम् २, जग्ध्वा २, आदम् २, आदयित्वा २, जिघत्सम् २
जिघत्सित्वा २ 29 अत्त्रिः, 30 अद्रिः
01 (२१)
02 (२-अदादिः-१०११-सक-अनि। पर।)
03 [[५। ‘लुङ्सनोर्घसॢ’ (२-४-३७) इति घसॢ। ‘सस्स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारः।]]
04 [[६। ‘एकाच उपदेशे--’ (७-२-१०) इतीण्णिषेधः।]]
05 [[आ। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः’ धा। का। २। ४४।]]
06 [पृष्ठम्००२०+ ४१]
07 [[१। ‘अदेः प्रतिषेधः’ (वा-१-३-८७) इति अस्य भक्षणार्थत्वेऽपि आत्मनेप- दित्वमेव।]]
08 [[२। ‘अदोऽनन्ने’ (३-२-६८) इति विट्।]]
09 [[B। ‘व्याप्तं गुहाशयैः क्रूरैः क्रव्याद्भिस्स निशाचरैः’ भ। का। ६-९४।]]
10 [[३। ‘क्रव्ये च’ (३-२-६९) इति विट्।]]
11 [[४। ‘वाऽसरूपो--’ (३-१-९४) इति न्याये- नाणपि।]]
12 [[C। ‘वालितो दूरभाग् रामः बाणं प्राणादमत्यजत्’ भ। का। ६। १२३।]]
13 [[ड्। ‘तव विदितविषादो दृष्टकृत्स्नामिषादः’ भ। का। १०-१७।]]
14 [[५। ‘अदो जग्धिर्ल्यप् ति किति’ (२-४-३६) इति जग्ध्यादेशः।]]
15 [[६। ‘बहुलं तणि, अन्नवधक--’ (२-४-५४) इति वार्तिकात् प्रयोगोऽयमपि साधुः। ‘अन्नाण्णः’ (४-४-८५) इति निर्देशाच्च।]]
16 [[७। ‘अच्युपसंख्यानम्-’ (वा। २-४-३७) इति घसॢ।]]
17 [[८। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
18 [[९। ‘लिट्यन्यतरस्याम्’ (२-४-४०) इति घसॢ विकल्पेन। ‘वस्वेकाज्--’ (७-२-६७) इति इट्।]]
19 [[१०। ‘सृघस्यदः क्मरच्’ (३-२-१६०) इति तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययः।]]
20 [[E। ‘जिघत्सोः नूनमापादि ध्वंसोऽयं तां निशाचरात्’ भ-का ६-३१।]]
21 [[११। ‘घञपोश्च’ (२-४-३८) इति घसॢ।]]
22 [[१२। ‘नौ ण च’ (३-३-६०) इति वा अप्।]]
23 [[F। ‘व्याप्नुवन्तो दिशोऽन्यादान् कुर्वन्तस्सव्यधान् हरीन्’ भ। का। ७-५६। अविद्यमानः न्यादः = आहारः येषां तान् इत्यर्थः।]]
24 [[ङ्। ‘आदरेण गमं चक्रुर्विषमेष्वप्यसंघसाः’ भ। का। ७-५६।]]
25 [[१३। ‘उपसर्गेऽदः’ (३-३-५९) इत्यप्।]]
26 [[१४। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति तुमुण्ण्वुलौ।]]
27 (वा याति)
28 [पृष्ठम्००२१+ ३४]
29 [[१। औणादिकः त्रिन् प्रत्ययः (द। उ। १। ३७।)। ॠषिः।]]
30 [[२। औणादिकः (द। उ। १-३४।) क्रिन् प्रत्ययः।]]
1 {@“आछि आयामे”@} 2 3 आञ्छकः-ञ्छिका, आञ्छकः-ञ्छिका, आञ्चिच्छिषकः 4 -षिका
आञ्छिता, त्री, आञ्छयिता-त्री, आञ्चिच्छिषिता-त्री
आञ्छन्-न्ती, आञ्छयन्-न्ती, आञ्चिच्छिषन्-न्ती
आञ्छिष्यन्-ती-न्ती, आञ्छयिष्यन्-ती-न्ती, आञ्चिच्छिषिष्यन्-न्ती-ती
-- आञ्छयमानः, आञ्छयिष्यमाणः
5 6 आन्-आञ्छौ-आञ्छः
-- -- आञ्छितम्- 7 तः, आञ्छितः, आञ्चिच्छिषितम्-तः-तवान्
आञ्छः, आञ्छः, आञ्चिच्छिषुः, आञ्छिच्छयिषुः
आञ्छितव्यम्, आञ्छयितव्यम्, आञ्चिच्छिषितव्यम्
आञ्छनीयम्, आञ्छनीयम्, आञ्चिच्छिषणीयम्
आञ्छ्यम्, आञ्छ्यम्, आञ्चिच्छिष्यम्
ईषदाञ्छः, दुराञ्छः, स्वाञ्छः
-- 8 आञ्छ्यमानः, आञ्छ्यमानः, आञ्चिच्छिष्यमाणः
आञ्छः, आञ्छः, आञ्चिच्छिषः
आञ्छितुम्, आञ्छयितुम्
आञ्चिच्छिषितुम्
आञ्छा, आञ्छना, आञ्चिच्छिषा, आञ्चिच्छयिषा
आञ्छनम्, आञ्छनम्, आञ्चिच्छिषणम्
आञ्छित्वा, आञ्छयित्वा, आञ्चिच्छिषित्वा
समाञ्छ्य, समाञ्छ्य, समाञ्चिच्छिष्य
आञ्छम् २, आञ्छित्वा २, आञ्छम् २, आञ्छयित्वा २, आञ्चिच्छिषम् २
आञ्छिच्छिषित्वा २
01 (५८)
02 (१-भ्वादिः-२०९-अक। से। पर-)
03 [[२। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
04 [[३। ‘नन्द्राः--’ (६-१-३) इति नकारस्य द्वित्वनिषेधः। ‘छे च’ (६-१-७३) इति अभ्या- सस्य तुक्। चुत्वम्।]]
05 [पृष्ठम्००५७+ २६]
06 [[१। छकारस्य ‘संयोगान्तस्य--’ (८-२-२३) इति लोपः।]]
07 [[आ। ‘सुरार्चिते म्लेच्छजनैर्दुरासदे श्रीलच्छिताङ्गे स्मितपुष्पलाञ्छिते। यत्र स्थिते वाञ्छितदे हरिद्रुमे तदाञ्छितह्रीच्छनमास्त नन्दनम्।।’ धा। का। १-२८। ‘दोर्दण्डाञ्छितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतः--’ इति श्लोकः क्षीरस्वाम्युपात्तः।]]
08 [[२। इदित्त्वात् ‘अनिदितां--’ (६-४-२४) इति नलोपो न।]]
1 {@“कुष निष्कर्षे”@} 2 निष्कर्षः = बहिर्निस्सारणम्।
कोषकः-षिका, कोषकः-षिका, 3 चुकुषिषकः-चुकोषिषकः-षिका, 4 निश्चुकुषिषकः-निश्चुकोषिषकः-षिका, निश्चुकुक्षकः-क्षिका, चोकुषकः-षिका
कोषिता, त्री, 5 निष्कोषिता, त्री, निष्कोष्टा-ष्ट्री, त्री, कोषयिता-त्री, चुकुषिषिता-चुकोषिषिता-त्री, निश्चुकुषिषिता-निश्चुकोषिषिता-निश्चुकुक्षिता-त्री, चोकुषिता-त्री
6 कुष्णन्-ती, कोषयन्-न्ती, चुकुषिषन्-चुकोषिषन्-न्ती
निश्चुकुषिषन्-निश्चुकोषिषन्-निश्चुकुक्षन्-न्ती
-- 7 कोषिष्यन्-न्ती-ती, निष्कोषिष्यन्-न्ती-ती, निष्कोक्ष्यन्-न्ती-ती, कोषयिष्यन्-न्ती-ती, चुकुषिषिष्यन्-चुकोषिषिष्यन्-न्ती-ती
निश्चुकुषिषिष्यन्-निश्चुकोषिषिष्यन्-निश्चुकुक्षिष्यन्-न्ती-ती
-- कोषयमाणः, कोषयिष्यमाणः, चोकुष्यमाणः, चोकुषिष्यमाणः
कुड्-कुट्-कुषौ-कुषः
-- -- -- कुषितम्-तः, 8 निष्कुषितम्- 9 तः, कोषितः, चुकुषिषितः-चुकोषिषितः, निश्चुकुषिषितः-निश्चुकोषिषितः निश्चुकुक्षितः, चोकुषितः-तवान्
कुषः, कोषः, चुकुषिषुः, चुकोषिषुः, निश्चुकुषिषुः निश्चुकोषिषुः निश्चुकुक्षुः चोकुषः
कोषितव्यम्, निष्कोषितव्यम्, निष्कोष्टव्यम्, कोषयितव्यम्, चुकुषिषितव्यम्-चुकोषिषितव्यम्-निश्चुकुषिषितव्यम्-निश्चुकोषिषितव्यम्, निश्चुकुक्षितव्यम्, चोकुषितव्यम्
कोषणीयम्-कोषणीयम्, चुकुषिषणीयम्-चुकोषिषणीयम्, निश्चुकुषिषणीयम्, निश्चुकोषिषणीयम्, निश्चुकुक्षणीयम्, चोकुषणीयम्
कोष्यम्, कोष्यम्, चुकुषिष्यम्-चुकोषिष्यम्, निश्चुकुषिष्यम्-निश्चुकोषिष्यम्, निश्चुकुक्ष्यम्, चोकुष्यम्
ईषत्कोषः-दुष्कोषः-सुकोषः
-- -- कुष्यमाणः, कोष्यमाणः, चुकुषिष्यमाणः-चुकोषिष्यमाणः-निश्चुकुषिष्यमाणः-निश्चुकोषिष्यमाणः-निश्चुकुक्ष्यमाणः, चोकुष्यमाणः
कोषः, कोषः, चुकुषिषः-चुकोषिषः-निश्चुकुषिषः-निश्चुकोषिषः-निश्चुकुक्षः, चोकुषः
कोषितुम्, निष्कोष्टुम्, निष्कोषितुम्, कोषयितुम्, चुकुषिषितुम्-चुकोषिषितुम्-निश्चुकुषिषितुम्-निश्चुकोषिषितुम्-निश्चुकुक्षितुम्, चोकुषितुम्
10 कुष्टिः, कोषणा, चुकुषिषा-चुकोषिषा-निश्चुकुषिषा-निश्चुकोषिषा-निश्चुकुक्षा, चोकुषा
कोषणम्, कोषणम्, चुकुषिषणम्-चुकोषिषणम्-निश्चुकुषिषणम्- निश्चुकोषिषणम्-निश्चुकुक्षणम्, चोकुषणम्
11 कुषित्वा, 12, कोषयित्वा, चुकुषिषित्वा-चुकोषिषित्वा, चोकुषित्वा
निकुष्य 13 विकुष्य निष्कोष्य, संचुकुषिष्य-संचुकोषिष्य-निश्चुकुषिष्य-निश्चुकोषिष्य-निश्चुकुक्ष्य, निश्चोकुष्य
कोषम् २, कुषित्वा २, कोषम् २, कोषयित्वा २, चुकुषिषम् २, चुकोषिषम् २, चुकुषिषित्वा २, चुकोषिषित्वा २, चोकुषम् २
चोकुषित्वा २। निश्चुकुषिषम् २, निश्चुकोषिषम् २, निश्चुकुक्षम् २, --
01 (२३३)
02 (९-क्र्यादिः-१५१८। सक। सेट्। पर।)
03 [[१। ‘रलो व्युपधात्--’ (१-२-२६) इति सनः कित्त्वविकल्पः। तेन गुणः कदाचित्, कदाचिन्न भवति। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04 [[२। ‘निरः कुषः’ (७-२-४६) इति ‘निर्’ पूर्वकात् कुषेः परस्य वलादेरार्धधातुकस्य इड्विकल्पः। इट्पक्षे कित्त्वं वैकल्पिकम्। तेन रूपद्वयम्। इडभावपक्षे ‘हलन्ताच्च’ (१-२-१०) इत्यनेन कित्त्वात् गुणाभावे ‘निश्चुकुक्षकः’ इति रूपम्। एवं निर्पूर्वके सर्वत्र सन्नन्ते रूपत्रयस्योपपत्तिः।]]
05 [[३। ‘निरः कुषः’ (७-२-४६) इति ‘निर्’ पूर्वकात् कुषेरार्धधातुकस्येड्विकल्पः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06 [[४। ‘कयादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। श्नाप्रत्ययस्य सार्वधातुकत्वेन ङिद्वद्भावादङ्गस्य गुणो न। ‘रषाभ्यां--’ (८-४-१) इति णत्वम्।]]
07 [पृष्ठम्०२२२+ १६]
08 [[१। ‘यस्य विभाषा’ (७-२-१५) इति इण्णिषेधे प्राप्ते ‘इण्णिष्ठायाम्’ (७-२-४७) इति नित्यमिट्।]]
09 [[आ। ‘निष्कोषितव्यान् निष्कोष्टुं प्राणान् दशमुखात्मजात्। आदाय परिघं तस्थौ बनान्निष्कुषितद्रुमः।।’ भ। का। ९-३०।]]
10 [पृष्ठम्०२२३+ २२]
11 [[१। क्त्वायां ‘रलो व्युपधात्--’ (१-२-२६) इति प्राप्तं वैकल्पिकं कित्त्वं बाधित्वा, ‘मृडमृदगुधकुष--’ (१-२-७) इति नित्यं कित्त्वम्।]]
12 [[आ। ‘बभूव याऽधिशैलेन्द्रं मृदित्वेवेन्द्रगोचरम्। कुषित्वा जगतां सारं सैका शङ्के कृता भुवि।।’ भ। का। ७-९५।]]
13 [[B। ‘तद्ग्रन्थनं परिहरन् गतिभिर्विकुथ्य पृष्ठे करोन्मृदितपुच्छमकर्षदेनम्। भूयो निपात्य मृडितस्वजनः स गुध्नन् दन्तौ विकुष्य गजमुत्क्षुभितं व्यनभ्नात्।।’ धा। का। ३-१०।]]
1 {@“कूल आवरणे”@} 2 कूलकः-लिका, कूलकः-लिका, चुकूलिषकः-षिका, चोकूलकः-लिका
3 कूलिता-त्री, कूलयिता त्री, चुकूलिषिता-त्री, चोकूलिता-त्री
कूलन्-न्ती, कूलयन्-न्ती, चुकूलिषन्-न्ती
-- कूलिष्यन्-न्ती-ती, कूलयिष्यन्-न्ती-ती, चुकूलिषिष्यन्-न्ती-ती
-- 4 व्यतिकूलमानः, कूलयमानः, -- चोकूल्यमानः
व्यतिकूलिष्यमाणः, कूलयिष्यमाणः, -- चोकूलिष्यमाणः
कूल्-कूलौ-कूलः
-- -- -- कूलितम्-तः, कूलितः, चुकूलिषितः, चोकूलितः-तवान्
5 कूलः, 6 सन्मार्गसङ्कूली, 7 कूलः, चुकूलिषुः, चोकूलः
कुलितव्यम्, कूलयितव्यम्, चुकूलिषितव्यम्, चोकूलितव्यम्
कूलनीयम्, कूलनीयम्, चुकूलिषणीयम्, चोकूलनीयम्
कूल्यम्, अनुकूल्यम्, चुकूलिष्यम्, चोकूल्यम्
ईषत्कूलः-दुष्कूलः-सुकूलः
-- -- कूल्यमानः, कूल्यमानः, चुकूलिष्यमाणः, चोकूल्यमानः
कूलः, 8 कुकूलम्, 9 कूलः, चुकूलिषः, चोकूलः
कूलितुम्, कूलयितुम्, चुकूलिषितुम्, चोकूलितुम्
कूला, कूलना, चुकूलिषा, चोकूला
कूलनम्, कूलनम्, चुकूलिषणम्, चोकूलनम्
कूलित्वा, कूलयित्वा, चुकूलिषित्वा, चोकूलित्वा
अनुकूल्य, प्रतिकूल्य, सञ्चुकूलिष्य, प्रचोकूल्य
कूलम् २, कूलित्वा २, कूलम् २, कूलयित्वा २, चुकूलिषम् २, चुकूलिषित्वा २, चोकूलम् २
चोकूलित्वा २। 10
01 (२४४)
02 (१-भ्वादिः-५२५। सक। सेट्। पर।)
03 [पृष्ठम्०२३२+ २५]
04 [[१। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति आत्मनेपदम्। शानच्।]]
05 [[२। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः। यद्वा ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्।]]
06 [[३। ‘सुप्याजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिः।]]
07 [[आ। ‘सन्मार्गसङ्कूलिषु शूलदायिनं दहन्तमेनांसि च तूलपूलवत्।’ धा। का। १-६८।]]
08 [[४। ‘कृञादीनां द्वे च’ (वा। ६-१-१२) इति वार्तिके चकारात् घञर्थे कप्रत्यये, द्वित्वे च रूपम्। कुकूलम् = तुषाग्निः। -- इति क्षीरतरङ्गिणी।]]
09 (तुषाग्निः)
10 [पृष्ठम्०२३३+ २६]
1 {@“जुतृ भासने”@} 2 ज्योतिरिति रूपसिध्यर्थं ज्युतृ इति केचित् पठन्ति।
जोतकः-तिका, जोतकः-तिका, जुजोतिषकः-जुजुतिषकः-षिका, जोजुतकः-तिका, जोतिता-त्री, जोतयिता-त्री, जुजोतिषिता-जुजुतिषिता- त्री, जोजुतिता-त्री
इत्यादीनि सर्वाणि रूपाणि कुकधातुवत् 3 बोध्यानि।
4 काननजोती, इति णिनिप्रत्ययान्तः।
01 (६१२)
02 (१-भ्वादिः-३२। अक। सेट्। आत्म।)
03 (१९७)
04 [[B। ‘पृदाकुजिद्वेगमयत्नतो ययौ वियोयुतत्काननजोतिनाऽध्वना।।’ धा। का। १। ५।]]
1 {@“णिदृ कुत्सासन्निकर्षयोः”@} 2 ‘प्रत्येकं निदिनेद्योः स्तां नेदते नेदतीत्युभे।
कुत्सायां सन्निकर्षे वा, कुत्सामात्रे तु निन्दति।।’ 3 इति देवः।
प्रणेदकः-दिका, नेदकः-दिकाः, निनिदिषकः-निनेदिषकः-षिका नेनिदकः-दिका
नेदिता-त्री, नेदयिता, त्री निनिदिषिता-निनेदिषिता-त्री, नेनिदिता-त्री
4 5 निद्यमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिटतिवत् 6 ज्ञेयानि।
अस्य धातोरूभयपदित्वात् नेदमानः, नेदयमानः, निनिदिषमाणः, निनेदिषमाणः, नेदिष्यमाणः, निनिदिषिष्यगाणः-निनेदिषिष्यमाणः
इति शानजन्तानि रूपाण्यधिकानीति विशेषः।
01 (६७५)
02 (१-भ्वादिः-८७१। सक। सेट्। उभ।)
03 (श्लो। ११४)
04 [पृष्ठम्०६२७+ २४]
05 [[आ। ‘नित्यं प्रमोहामिदितोरुमेदैः प्रमेधिता सद्भिरनिद्यमानैः।’ धा। का। २। २६।]]
06 (१९०)
1 {@“तल प्रतिष्ठायाम्”@} 2 तालकः-लिका, तितालयिषकः-षिका
तालयिता-त्री, तितालयिषिता- त्री
इत्यादीनि सर्वाण्यपि रूपाणि कलधातुवत् 3 बोध्यानि।
पचाद्यचि- 4 तलः।
‘तलम्-अच्।
संज्ञापूर्वको विधिरनित्यः’ 5 इति वृद्ध्यभावः।
मैत्रेयस्तु - ‘घुषिरविशब्दने’ 6 इति ज्ञापकं सामान्यमित्युक्त्वा, णिजभावे तलशब्दमाह।।’ इति मा।
धा।
वृत्तिः।।
01 (७१२)
02 (१०-चुरादिः-१५९८। सक। सेट्। उभ।)
03 (१७५)
04 [[C। ‘दुर्दान्तचक् पशुपचुक्कनमप्यरौत्सीत् प्रक्षालितक्षितितलातुलवर्षरोधी।’ धा। का। ३। २१।]]
05 (परिभाषा ९५)
06 (७-२-२३)
1 {@“तिल गतौ”@} 2 ‘तिल्ल’ इत्येके।
तेलकः-लिका, तेलकः-लिका, तितेलिषकः-तितिलिषकः-षिका, तेतिलकः- लिका
तेलिता त्री, तेलयिता-त्री, तितेलिषिता-तितिलिषिता-त्री, तेति- लिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि किटधातुवत् 3 ज्ञेयानि।
01 (७२३)
02 (१-भ्वादिः-५३४। सक। सेट्। पर।)
03 (१९०)
1 {@“त्रक्ष गतौ”@} 2 त्रक्षकः-क्षिका, त्रक्षकः-क्षिका, तित्रक्षिषकः-षिका, तात्रक्षकः-क्षिका
त्रक्षिता- त्री, त्रक्षयिता-त्री, तित्रक्षिषिता-त्री, तात्रक्षिता-त्री
इत्यादीनि सर्वाणि रूपाणि तक्षतिवत् 3 बोध्यानि।
शतरि-त्रक्षन्-न्ती इति विशेषः।
‘त्रक्ष ष्ट्रक्ष णक्ष गतौ’ इति पठित्वा, ‘त्रयोऽप्यकारमध्याः’ इति बालमनो- रमायामुक्तत्वादत्रापि अकारमध्योऽयं पठितः।
सर्वेऽपि प्राचीना माधवधातु- वृत्तिकारादयः तृक्ष इत्येव पठन्ति।
01 (७८४)
02 (१-भ्वादिः-६६०। अक। सेट्। पर।)
03 (६९१)
1 {@“प्लुष दाहे”@} 2।
3 दिवादिष्वेव प्लुषधातुर्द्विवारं पठ्यते--पुषादावन्यत्र च।
तत्र पुषादिपाठाद् अप्लुषत् इति अङ्सिद्धिः फलम्।
अन्यत्र तु, अप्लोषीत् इति सिचस्सिद्धिः फलमिति विशेषः।
कृदन्तेषु तु द्वयोस्तुल्यतेत्यतोऽस्माभिरेकदैवोभयोरुपादानमादृतम्।]] ‘… दाहकर्मणि।।
प्लोषति प्लुष्यतीति स्तां, प्लुष्णाति स्नेहनादिषु।’ 4 इति देवः।
प्लोषकः-षिका, प्लोषकः-षिका, पुप्लुषिषकः-पुप्लोषिषकः-पिका, 5 पोप्लुषकः-षिका
प्लोषिता-त्री, प्लोषयिता-त्री, पुप्लुषिषिता-पुप्लोषिषिता- त्री, पोप्लुषिता-त्री
इत्यादीनि सर्वाणि रूपाणि दैवादिककुप्यतिवत् 6 बोध्यानि।
7 प्लुष्यन् इति शतरि रूपम्।
01 (१०८३)
02 (४-दिवादिः-१११५। १२१६। सक। सेट्। पर)
03 [[[अ]
04 (श्लो। १७१-१७२)
05 [पृष्ठम्०९१०+ २६]
06 (२२४)
07 [[आ। ‘तं प्लुष्यद् दृष्टिनृत्यद्रुषमपि च गतत्रासमुत्कुथ्यदङ्गं…।।’ धा। का। २। ५६।]]
1 {@“भाम क्रोधे”@} 2 अदन्तः।
‘भामेर्भामयति क्रोधे तत्रैव शपि भामते।।’ 3 इति देवः।
भामकः-मिका, बिभामयिषकः-षिका
भामयिता-त्री, बिभामयिषिता- त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककालयतिवत् 4 ज्ञेयानि।
कर्तरि क्तप्रत्यये- 5 भामितः इति रूपम्।
01 (११५६)
02 (१०-चुरादिः-१८७३। अक। सेट्। उभ।)
03 (श्लो। १४९)
04 (१८५)
05 [[आ। ‘यो मत्क्षयं स्पृहयते मयि भामितेऽपि संसूचयत्यरिगुणांश्च मदन्नखेटी।’ धा। का। ३। ५५।]]
1 {@“भ्रेजृ दीप्तौ”@} 2 भ्रेजकः-जिका, भ्रेजकः-जिका, बिभ्रेजिषकः-षिका, बेभ्रेजकः-जिका, भ्रेजिता- त्री, भ्रेजयिता-त्री, बिभ्रेजिषिता-त्री, बेभ्रेजिता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिककेपतिवत् 3 ज्ञेयानि।
क्विपि-विभ्रेक्-विभ्रेग्-विभ्रेजौ-विभ्रेजः, इति रूपमित्ति विशेषः।
01 (११९२)
02 (१-भ्वादिः-१८०। अक। सेट्। आत्म।)
03 (२६१)
1 {@“मिल संगमे”@} 2 ‘श्लेषे मिलेत्, संगमे तु मिलते मिलतीति च।’ 3 इति देवः।
मेलकः-लिका, मेलकः-लिका, मिमिलिषकः-मिमेलिषकः-षिका, मेमि- लकः-लिका
मेलिता-त्री, मेलयिता-त्री, मिमिलिषिता-मिमेलिषिता- त्री, मेमिलिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 4 ज्ञेयानि।
“-- ‘मिल संश्लेषणे’ इति पठितस्येह पुनः पाठः-- कर्त्रभिप्राये तङर्थः।
इति आत्रेयः।” इति मा।
धा।
वृत्तिः।
क्षीर- स्वामी त्वमुं धातुं न पठति।
अस्य धातोरुभयपदित्वात् शानचि -- 5 मिलमानः, 6 मिलिष्यमाणः, मिमिलिषमाणः, मिमेलिषमाणः, मिमिलिषिष्य- माणः, इत्यादीनि तत्तत्प्रत्यये रूपाण्यूह्यानि।
7 मेलनम्।
8 मेला-कुम्भमेला।
9
01 (१२६०)
02 (६-तुदादिः-१४२९। सक। सेट्। उभ।)
03 (श्लो। १६०)
04 (१९३)
05 [[१। शानचि, ‘तुदादिभ्यः--’ (३-१-७७) इति विकरणप्रत्ययः शः। तस्य ङिद्वद्भा- वेनाङ्गस्य गुणो न।]]
06 [[आ। ‘मित्रैः सम्मिलमान एत्य नगरोद्यानं विमुञ्चन् भियम्…।’ धा। का। २। ८५।]]
07 [[२। ल्युटि अनादेशे गुणे च रूपमेवम्। ‘परिमिलनमप्राप्य हरितम्’, ‘मुक्तांशुजाल- मिलनाद् रुचिरैः प्रवालैः बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्।’ (पादुकासहस्रे ५५२ श्लो।) इत्यादिषु ‘संज्ञापूर्वको विधिरनित्यः’ (परि। ९५) इति गुणनिषेधः इति तत्तद्व्याख्यासु प्रतिपादितम्। बोपदेवव्याकरणे मुग्धबोधे तु मिलधातोः (लिख- धातोश्च) कुटादित्वमङ्गीकृत्य, ल्युटि ‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’ (१-२-१) इति ङिद्वद्भावेन गुणनिषेधः साधितः। अत एव ‘लिखनसंक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इत्यादिकानि गदाधरादिवाक्यान्यपि साधून्येवेति ज्ञेयम्।]]
08 [[३। स्त्रियां भावादौ, भिदादेः (३-३-१०४) आकृतिगणत्वेन अङ्प्रत्ययः, उपधागुणश्च। मिलन्त्यत्रेति अधिकरणेऽङ्।]]
09 [पृष्ठम्१०२७+ २४]
1 {@“मिषु सेचने”@} 2 ‘--सेवने’ इति धा।
का।
3।
‘सेचने मेषतीति स्यात्, स्पर्धायां मिषतीति शे।’ 4 इति देवः।
मेषकः-षिका, मेषकः-षिका, मिमेषिषकः-मिमिषिषकः-षिका, मेमिषकः- षिका
मेषिता-त्री, मेषयिता-त्री, मिमेषिषिता-मिमिषिषिता-त्री, मेमिषिता- त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकजेमतिवत् 5 ज्ञेयानि।
6 मेषः-मेषी, शतरि-मेषन्, इत्यादीनि रूपाणि विशेषेण भवन्ति।
ण्यति 7 मेष्यम्।
01 (१२६५)
02 (१-भ्वादिः-६९९। सक। सेट्। पर।)
03 (१-८७)
04 (श्लो। १७४)
05 (६०२)
06 [[४। ‘नन्दिग्रहिपचादिभ्यः’ (३-१-१३४) इति अच्प्रत्यये रूपमेवम्। मेषट् इति पचादिषु पाठात् टित्त्वात् स्त्रियां ङीषि-मेषी इति भवति।]]
07 [[आ। ‘वेषैर्मेष्यतमैः प्रपोषदशुभप्रश्रेषिभिः श्लेषति…।’ धा। का। १। ८८।]]
1 {@“वख गत्यर्थः”@} 2 वाखकः-खिका, वाखकः-खिका, विवखिषकः-षिका, वावखकः-खिका
वखिता-त्री, वखयिता त्री, विवखिषिता-त्री, वावखिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककखतिवत् 3 ऊह्यानि।
01 (१५३०)
02 (१-भ्वादिः-१३०। सक। सेट्। पर।)
03 (१४१)
1 {@“विदॢ लाभे”@} 2 मुचादिः।
‘विन्दते विन्दतीत्येवं लाभे वेदयते णिचि।।’ 3 इति देवः।
व्याघ्रभूत्यादिमते सेट्कोऽयम्।
वेदिता इति।
4 वेदकः-दिका, वेदकः-दिका, विवेदिषकः-विविदिषकः-5-षिका, वेविदकः-दिका
वेदिता, 6-त्री, वेदयिता-त्री, विवेदिषिता-विविदिषिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि किलतिवत् 7 ज्ञेयानि।
शतरि 8 विन्दः 9, 10 गोविन्दः-कुविन्दः, 11 अरविन्दम् 12, 13 वित्तम्- 14, विन्नं 15, 16 परिवेत्ता, विविद्वान् 17 -विविदिवान्, 18 वेदना 19 20 21 परिवित्तिः, 22 ब्राह्मणवेदं 23, 24 यावद्वेदं 25, 26 चोरवेदं निहन्त्यसौ]।
01 (१६०६)
02 (६-तुदादिः-१४३२। सक। अनि। उभ।)
03 (श्लो। १११)
04 [पृष्ठम्१२३७+ ३०]
05 [विवित्सकः]
06 [वेत्ता]
07 (१९३)
08 [[१। ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये मुचादित्वात् ‘शे मुचा- दीनाम्’ (७-१-५९) इति नुमि शपि पररूपे च रूपमेवम्।]]
09 [[आ। ‘आर्चीद् द्विजातीन् परमार्थविन्दानुदेजयान् भूतगणान् न्यषेधीत्।’ भ। का। १-१५।]]
10 [[२। ‘गवादिषु विन्देः संज्ञायाम्’ (वा। ३-१-१३८) इति शः। गां विन्दतीति गोविन्दः। एवं कुविन्दह् इति प्रक्रियासर्वस्वे।]]
11 [[B। ‘प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः।’ शि। व। ३-६५]]
12 [[३। अरविन्दम्-चक्रस्य नाभिनेम्योरन्तरालकाष्ठानि अराः, तत्सदृशानि दलानि विन्दति -- लभत इत्यर्थः। भाष्ये तु अरविन्दः पुंल्लिङ्गत्वेन पठ्यते। ‘कर्मण्यण्’ (३-२-१) बाधनाय इदम् इति बृ। शेखरे।]]
13 [[४। ‘वित्तो भोगप्रत्यययोः’ (८-२-५८) इति क्तप्रत्यये भोगे चाभिधेये तत्वाभावो निपात्यते। वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। वित्तम् धनम्, वित्तं प्रसिद्धम्, भुज्यत इति भोगो धनम्। प्रतीयत इति प्रत्ययः प्रसिद्धम्। अन्यत्र विन्नम्।]]
14 [धनम्]
15 [लब्धम्]
16 [[५। तृजन्तोऽप्ययं ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (द। उ। २-१) इति संज्ञायां गम्यमानायामनिटौ भवतः। ‘परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिप्रहात्’ इत्यमरः। ज्येष्ठे विवाहरहिते कृतदारपरिग्रहः कनिष्ठः परिवेत्ता इत्युच्यते। क्वसुप्रत्यये ‘विभाषा गमहनविद--’ (७-२-६८) इतीड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। तेन निष्ठानत्वपक्षे, नत्वाभा- वपक्षेऽपीण्निषेधो नित्य इत्यवधेयम्। कातन्त्रे तु अनिट्त्वेनास्य धातोः पाठात् तेषां मते निष्ठायामिण्निषेधः सिद्ध एव। भाष्यादिषु तु धातुरयं सेडित्येव सम्मतः। विस्तरस्तु माधवीये द्रष्टव्यः।]]
17 [[६। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ विकल्पेन इडागमो भवति। तेन रूपद्वयम्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्।]]
18 [[७। ण्यन्तात् ‘घट्टिवन्दिविदिभ्यश्च’ (३-३-१०७) इति युचि रूपमेवम्।]]
19 [[C। ‘युक्त्वा योगं स्थितः शैले विवृण्वन् चित्तवेदनाम्।।’ भ। का। ७-७३]]
20 [पृष्ठम्१२३८+ २८]
21 [[१। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति क्तिच्। ‘परिवित्तिस्तु तज्ज्यायान्’ इत्यमरः।]]
22 [[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति साकल्यविशिष्टे कर्मण्युपपदे णमुल् भवति। यं यं ब्राह्मणं = ब्राह्मणत्वेन जानाति, लभते वा, तं तं भोजयति इत्यर्थः। अत्र सत्तार्थस्यैकस्य न ग्रहः
\n\n अकर्मकत्वात्।]]
23 [भोजयति]
24 [[३। ‘यावति विन्दजीवोः’ (३-४-३०) इति णमुल्प्रत्ययः। यावत् लभते तावद् भुङ्क्त इत्यर्थः।]]
25 [भोजयति]
26 [[४। चोरवेदमित्यत्र, यान् चोरभूतान् लभते विचारयति वेत्ति वा तान् सर्वानपि हन्तीत्यर्थे ‘कर्मणि दृशिविदोः--’ (३-४-२०) इति णमुल्। ‘चोरवेदं निह- न्त्यसौ--’ इति प्र। सर्वस्वे।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
