| YouTube Channel

त्रिस्पृशा (trispRzA)

 
वाचस्पत्यम्
Sanskrit
त्रिस्पृशा स्त्री त्रीणि चान्द्रदिनानि एकस्मिन् सावनेदिने स्पृशति स्पृश--क एकादशीभेदे “यदापूर्बदिने दशमी परदिने चैकादशी स्वल्पा ततो द्वादशीरात्रिशेषे त्रयोदशी सा चैकादशी त्रिस्पृशा” रघु०“एकादशी द्वादशी रात्रिशेषे त्रयोदशी तत्रक्रतुशतं पुण्यं त्रयोदश्यान्तु पारयेत्” एका० त० धृतवचनम् “एकादशी द्वादशी रात्रिशेषे त्रयोदशी ।त्रिस्पृशा नाम सा ज्ञेया ब्रह्महत्यां व्यपोहति” संवर्त्त-वचनम् अष्टसु महाद्वादशीषु वासरत्रयस्पर्शिन्यां३ द्वादश्याञ्च द्वादशीशब्दे दृश्यम्