| YouTube Channel

त्रिस्नान (trisnAna)

 
वाचस्पत्यम्
Sanskrit
त्रिस्नान
न०
त्रिषु कालेषु स्नानमत्र त्रिकालस्नानाङ्गेव्रतभेदे तच्च वानप्रस्थाङ्गं प्रायश्चित्ताङ्गञ्च तत्राद्यंकामन्दकीनीतिशास्त्रे उक्तं यथा “वनवासः पयो-मूलनीवारफलवृत्तिता प्रतिग्रहनिवृत्तिश्च त्रिस्नानंव्रतचारिता देवातिथीनां पूजा धर्मोऽयं वन-वासिनः” द्वितीयन्तु त्रिषवणशब्दे दर्शितम्