| YouTube Channel

त्रिसन्ध्यव्यापिनी (trisandhyavyApinI)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिसन्ध्यव्यापिनी,
स्त्री,
(त्रिसन्ध्यं व्याप्नोतीति ।वि + आप् + णिनि + ङीप् ।) त्रिसन्ध्यघटकी-भूतयावत्क्षणव्यापिनी तिथिः यथा, --“त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः ।न तत्र युग्मादरणमन्यत्र हरिवासरात्
”इति पराशरीयेण त्रिसन्ध्यव्यापित्वेन नियमाभि-घानं तदपवादकम् इति तिथ्यादितत्त्वम्
तयोर्युग्मसांमुख्योरपवादकं तदपवादकम् इतितट्टीका