| YouTube Channel

त्रिसन्ध्यं (trisandhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिसन्ध्यं,
क्ली,
(तिसृणां सन्ध्यानां समाहारः ।आबन्तोवेति पाक्षिकी क्लीवता ।) पूर्व्वाह्ण-मध्याह्नापराह्णकालः इत्यमरः
अस्य रूपान्तरम् त्रिसन्ध्यी इत्यमरटीकायांभरतः
(यथा, महाभारते ८२ २१ ।“सान्निध्यं पुष्करे येषां त्रिसन्ध्यं कुरुनन्दन ! ।आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।गन्धर्व्वाप्सरसश्चैव नित्यं सन्निहिता विभो !
”)