| YouTube Channel

त्रिषुपर्ण (triSuparNa)

 
वाचस्पत्यम्
Sanskrit
त्रिषु(सु)पर्ण
पु०
त्रयः सुपर्णास्तद्वाचकशब्दा यत्र बह्वृ-चवेदभागभेदे त्रिसौपर्णशब्दे दृश्यं तद्व्रते तद्यो-गात् तद्ब्रतधारिणि पुरुषे “त्रिणाचिकेबः पञ्चा-ग्निस्त्रिसु(षु)पर्णः षडग्निवित्” मनुः बा कप् ।तत्रार्थे “वेदार्थवित् ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः” याज्ञ०