| YouTube Channel

त्रिशिराः (trizirAH)

 
Wordnet
Sanskrit
Synonyms:
त्रिशिराः, त्रिमुण्डः
noun
एकः राक्षसः यस्य त्रीणि शिरांसि आसीत्।
"त्रिशिराः रामेण हतः।"
शब्दकल्पद्रुमः
Sanskrit
त्रिशिराः, [स्]
पुं,
(त्रीणि शिरांसि मस्तकानियस्येति ।) कुवेरः इति हेमचन्द्रः १०३
ज्वरः यथा, --“त्रिशिरास्ते प्रसन्नोऽहं व्येतु ते मज्ज्वराद्भयम् ।”इति श्रीभागवतम्
रावणपुत्त्रविशेषः (यथा, रामायणे ।१२५ ।“अकम्पनश्च निहतो बलिनोऽन्ये राक्षसाः ।त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ
”)खरसेनापतिः इति रामायणम्
(यथा, रघुवंशे १२ ४७ ।“तं शरैःप्रतिजग्राह खरत्रिशिरसौ सः
”स्वनामख्यातस्त्वष्टुः प्रजापतेः पुत्त्रः यथा, महाभारते ।“त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।सपुत्त्रं वै त्रिशिरसमिन्द्रद्रोहात् किलासृजत्
”असुरविशेषः यथा, तत्रैव ३१ १२ ।“वातापिरिल्ललश्चैव त्रिशिराश्च तथा विभो !
”शिखात्रयविशिष्टे, त्रि यथा, तत्रैव २३ ।१४७ ५४ ।“त्रिशिरास्तस्य देवस्य शातकुम्भमयो द्रुमः ।ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः
”)