| YouTube Channel

त्रिवृता (trivRtA)

 
Spoken Sanskrit
English
त्रिवृता trivRtA
f.
St. Thomas lidpod plant [ Ipomoea Turpethum - Bot. ]
Monier Williams Cologne
English
त्रि—वृता
f.
Ipomoea Turpethum,
Suśr.
VarBṛS.
Benfey
English
त्रिवृता त्रिवृता, i. e. त्रि-वृत् + अ,
f.
= त्रिवृत्
III., Suśr. 1, 132, 17.
Shabdartha Kaustubha
Kannada
त्रिवृता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕೆಂಪುತಿಗಡೆ ಮರ
व्युत्पत्तिः - > त्रिभिः अवयवैः वृता
शब्दकल्पद्रुमः
Sanskrit
त्रिवृता,
स्त्री,
(त्रिभिरवयवैर्वृता ।) त्रिवृत् ।इत्यमरः १०८
(अस्याः पर्य्यायोयथा, --“त्रिभण्डी त्रिवृता श्यामा सुरभा कोटरा तथा ।सर्व्वानुभूतिः सुवहा शब्दैः पर्य्यायवाचकैः
”“त्र्यषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम् ।सौवर्च्चलार्द्धकर्षञ्च पलार्द्धञ्चाम्लवेतसाम्
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत् ।गुल्मपार्श्वार्त्तिनुत् सिद्धं जीर्णे चाद्याद्रसौदनम्
”“तुल्याम्लं त्रिवृताकल्कं सिद्धं गुल्महरं घृतम् ।मूलं श्यामात्रिवृतयोः पचेदामलकैः सह ।जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः
”इति चरके कल्पस्थाने सप्तमेऽध्याये
)
वाचस्पत्यम्
Sanskrit
त्रिवृत्(ता)
पु०
त्रीन् अवयवान् वृणोति वृ--क्विप् त्रिभिरव-यवैर्वृता वा १(तेओडि) औषधिभेदे, अमरः “श्वेतात्रिवृद्रोचनी स्यात् स्वादुरुष्णा समीरहृत् रूक्षापित्तज्वरश्लेष्मपित्तशोथोदरापहा श्वेतकृष्णपभेदेनद्विविधा त्रिवृदुच्यते श्यामा त्रिवृत्ततो हीनगुणातीव्रा विरेचिका मूर्च्छादाहमदभ्रान्तिकण्ठोत्कर्षण-कारिणी” भावप्र० वर्तनं वृत् त्रिः तिस्रः वृतो यत्र ।एकस्य त्रिशब्दस्य त्रिवारे त्रिसंख्यान्विते वृत्तिःतन्त्रोच्चारणात् त्रिधात्रिगुणिते
त्रि०
“विप्रस्योर्द्धवृतंत्रिवृत्” इति मनुः त्रिगुणितसूत्रत्रयस्यैवोपवीतरूपत्वा-त्तथार्थता त्रिर्वर्त्तते वृत--क्विप् मिश्रितेषु तेजोजलान्नेषुच “तासां त्रिवृतं त्रिवृतमेकैकां करवाणि” छा० उ०४ त्रिगुणिते “यजेत वाश्वमेधेन स्वर्जिता गोषयेन वा ।अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा” मनुः ।त्रिभिरृग्यजुःसामभिर्वर्त्तते वृत--कर्तरि क्विप् यज्ञेपु० “यः सुपर्णो यजुर्नाम छन्दोगात्रस्त्रिवृच्छिराः”भा० शा० ४७ अ० “त्रिवृत् यज्ञः शिरोऽस्य” नीलक०त्रिस्त्रिर्वर्तते सुज्गर्भस्य त्रिशब्दस्य वीप्सार्थत्वम् ।६ ऋग्विशेषाणां नवके यथोक्तं सामसंहिताभाष्ये“लौकिको वाक्यगोवार्थस्त्रिवृदादेः समत्वतः उभौविध्यर्थवाक्यैकवाक्यत्वादस्त्विहान्तिमः “त्रिवृद्बहिष्प-वमानम्” इति श्रुतौ त्रिवृच्छब्दस्य त्रेगुण्यं लोकसिद्धो-ऽर्थः वाक्यशेषादृक्--त्रयात्मकेषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मक--स्तोत्र--निष्पादन--क्षमाणाम् “उपास्वै गा-यता नरः (उ प्र० १२, सू०) इत्यादीनामृचां नव-कमर्थः तत्र धर्म निर्णये वेदस्य प्रबलत्वेऽपि पद--पदार्थ-निर्णये लोकवेदयोः समान--बलवत्त्वात् उभावर्थौ विक-ल्पेन ग्रहीतव्यौ, इति चेत्--मैवम्, लौकिकार्थ--स्वी-कार पक्षे विधिवाक्ये त्रैगुण्यमर्थः, अर्थबाद--वाक्येस्तोत्रियाणामृचां मवकम्, इत्येवं विध्यर्थवादयोर्वैयधि-करण्यादेकवाक्यत्वं स्यात्, अतः एकवाक्यत्वाय स्तो-त्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः”