| YouTube Channel

त्रिलौही (trilauhI)

 
Wordnet
Sanskrit
Synonyms:
त्रिलौही
noun
एका प्राचीना मुद्रा।
"त्रिलौही सुवर्णरजतताम्राणां योगेन निर्मिता आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
त्रिलौही,
स्त्री,
(त्रीणि लौहानि साधनत्वेना-स्त्यस्याः अच् गौरादित्वात् ङीष् ।)मुद्राविशेषः यथा, अथ मन्त्रिणां हितर्थायत्रिलौही मुद्रा निरूप्यते ।“सोमसूर्य्याग्निरूपाः स्युवेर्णा लौहत्रयं तथा ।रौप्यमिन्दूः स्मृतो हेम सूर्य्यस्ताम्रो हुताशनः
लौहभागाः समुद्दिष्टाः स्वराद्यक्षरसंख्यया ।तैर्लौहैः कारयेन्मुद्रामसङ्कलितसङ्गताम्
एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराःशुभोदयाः ।आग्नेया व्यापकाः सर्व्वे सोमसूर्य्याग्निदेवताः
स्वराः षोडश विख्याताः स्पर्शास्ते पञ्चविंशतिः ।व्यापका दश ते कामधनधर्म्मप्रदायिनः
साष्टं सहस्रं संजप्य स्पृष्ट्वा तां जुहुयात्ततः ।तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्व्वसंख्यया
निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना ।आवाह्य पूजयेद्देवीमुपचारैर्व्विधानतः
अभिषिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः ।इयं मुद्रा क्षुद्ररोगविषज्वरविनाशिनी
व्यालचौरमृगादिभ्यो रक्षां कुर्य्याद्बिशेषतः ।युद्धे विजयमाप्नोति धारयन् मनुजेश्वरः
मन्त्रसिद्धिकरी पुंसां चतुर्व्वर्गफलप्रदा ।धारयन्मनुजो नित्यं देवतुल्यो भवेद्भुवि
”इति तन्त्रसारः
वाचस्पत्यम्
Sanskrit
त्रिलौही स्त्री त्रीणि लौहानि साधनत्वेनास्त्यस्याःगौरा० ङीष् सुवर्णरजतताम्रपरिमाणभेदेन निर्मितेमुद्राभेदे “अथ मन्त्रिणां हितार्थाय त्रिलौही मुद्रानिरूप्यते सोमसूर्य्याग्निरूपाः स्थुर्वर्णा लौहत्रयंतथा रौप्यमिन्दुः स्मृतो हेम सूर्य्यस्ताम्रोहुताशनः लौहभागाः समुद्दिष्टाः स्वराद्यक्षर-संख्यया तैर्लोहैः कारयेन्मुद्रामसङ्कलितसङ्गताम् ।एषु स्वराः स्मृताः सौम्याः स्पर्शाः सौराः शुभोदयाः ।आग्नेया व्यापकाः सर्वे सोमसूर्य्याग्निदेवताः स्वराःषोडश विख्याताः स्पर्शाः स्युः पञ्चविंशतिः व्यापका दशते कामधनधर्मप्रदायिनः साष्टं सहस्रं संजप्य स्पृष्ट्वातां जुहुयात्ततः तस्यां सम्पातयेन्मन्त्री सर्पिषा पूर्व-संख्यया निःक्षिप्य कुम्भे तां मुद्रामभिषेकोक्तवर्त्मना आवाह्य पूजयेद्देवीमुपचारैर्विधानतः अभि-षिच्य विनीताय दद्यात्तां मुद्रिकां गुरुः इयं मुद्राक्षुद्ररोगविषमज्वरनाशिनी व्यालचौरमृगादिभ्योरक्षां कुर्य्याद्विशेषतः युद्धे विजयमाप्नोति धारयन्मनुजेश्वरः मन्त्रसिद्धिकरी पुंसां चतुर्वर्गफलप्रदा ।धारयन् मनुजो नित्यं देवतुल्यो भवेद्भुवि” तन्त्रसा०