| YouTube Channel

त्रिमूर्त्तिः (trimUrttiH)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिमूर्त्तिः,
पुं,
(तिस्रो मूर्त्तयो यस्य ।) बुद्धः ।इति त्रिकाण्डशेषः
त्रि, ब्रह्मविष्णुशिवाख्य-मूर्त्तित्रयवान् यथा, --“त्रिमूर्त्तिर्यः सर्गस्थितिविलयकर्म्माणि तनुते ।”इति गङ्गेशोपाध्यायः
(यथाच कुमारे ।“नमस्त्रिमूर्त्तये तुभ्यं प्राक् सृष्टेः केवलात्मने
”)