| YouTube Channel

त्रिफलादिलौह (triphalAdilauha)

 
वाचस्पत्यम्
Sanskrit
त्रिफलादिलौह
न०
भैषज्यरत्नावल्युक्ते लौहभेदे यथा“त्रिफला मुस्तकं व्योषं विडङ्गं पुष्करं वचा चित्रकंमधुकञ्चैव पलांशं श्लक्ष्णचूर्णितम् अयश्चूर्णपलान्यष्टौगुगगुलोस्तावदेव हि आलोड्य मधुनोपेतं पलद्वादश-केन प्रातर्विलिह्य भुञ्जानो जीर्णे तस्मिन् जयेद्रुजः ।दुःसाध्यमामवातञ्च पाण्डुरोगं हलीमकम् जीर्णान्नसम्भवं शूलं श्वयथुं विषमज्वरम्”