| YouTube Channel

त्रिफलाघृत (triphalAghRta)

 
वाचस्पत्यम्
Sanskrit
त्रिफलाघृत
न०
त्रिफलानां रसेन युक्तं घृतम् शा० त० ।चक्रदत्तोक्ते घृतभेदे तच्च नानाविधं तत्रैवोक्तं यथा“त्रिफलाभृङ्गमहौषधमध्वाज्यच्छागपयसि गोमूत्रे ।नागं सप्तनिषिक्तं करोति गरुडोपमञ्चक्षुः” अन्यदपि“त्रिफलाक्वाथकल्काभ्यां सपयस्कं शृतं घृतम् तिमि-राण्यचिराद्धन्ति पीतमेतन्निशामुखे”