| YouTube Channel

त्रिप्रश्न (triprazna)

 
वाचस्पत्यम्
Sanskrit
त्रिप्रश्न
पु०
त्रयाणां दिग्देशकालानां प्रश्नः दिग्देश-कालानां प्रश्ने तन्मूलके दिगादिनिरूपणे तदधि-कारेण सि० शि० उक्तं यथा “जगुर्विदोऽदः किलकालतन्त्रं दिग्देशकालावगमोऽत्र यस्मिन् त्रिप्रश्न-नाम्नि प्रचुरोक्तिधाम्नि” सू० सि० “शिलातलेऽम्बु-संशुद्धे” इत्यादिनोक्त्वा “इति त्रिप्रश्नाधिकारः” इत्युक्तम्“दिग्देशकालानां प्रतिपादनमिदं परिपूर्त्तिमाप्तमि-त्यर्थः दिशां साधनं शिलातल इत्यादि नियतं, तत्-सम्बन्धेन समकोणयाम्योत्तरशङ्क्नां साधनान्यपिदिगन्तर्गतान्यनियतानि पलमालम्बाक्षादिसाधनं देश-निरूपणं नियतम् अग्राचरादिसाधननियतम् ।कालसाधनं तद्वच्छायादिसाधनं कालनिरूपणमितिविवेकः” रङ्गना०