| YouTube Channel

त्रिपुरा (tripurA)

 
Monier Williams Cologne
English
त्रि—पुरा a (आ),
f.
a kind of cardamoms (cf. -पुटा),
Gal.
a kind of rice, ib.
a kind of sorcery,
Śārad.
xii
N.
of an,
Up.
Durgā,
KālP.
Tantras.
Pañcad.
त्रि—पुरा b
f.
See °र
Wordnet
Sanskrit
Synonyms:
त्रिपुरा
noun
देवतानामविशेषः। त्रिपुरानामकदेवता।
"कालिकापुराणे त्रिपुरायाः तन्त्रशास्त्रानुसारं पूजनं वर्णितम् अस्ति।"
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
Mahabharata
English
Tripurā, a city. § 515 (Karṇadigvijaya): III, 254, 15246 (conquered by Karṇa on his digvijaya).
शब्दकल्पद्रुमः
Sanskrit
त्रिपुरा,
स्त्री,
(त्रीन् धर्म्मार्थकामान् पुरति पुरतोददातीति पुरअग्रगमने अत्र अग्रदाने + “इगु-पधज्ञेति ।” १३५ इति कः ततष्टाप् ।)देवीविशेषः तन्मन्त्रध्यानादिकं यथा, --“शृणुतं त्रिपुरामूर्त्तेः कामाख्यायास्तु पूजनम् ।एतस्या मूलमन्त्रन्तु पूर्व्वमुत्तरतन्त्रके
युवयोरिष्टयोः सम्यक् क्रमात्तु प्रतिपादितम् ।वाग्भवं कामराजन्तु डामरञ्चेति तत्त्रयम्
सर्व्वधर्म्मार्थकामादिसाधनं कुण्डलीयुतम् ।त्रीन् यस्मात् पुरतो दद्यात् दुर्गा ध्याता महेश्वरी
त्रिपुरेति ततः ख्याता कामाख्या कामरूपिणी ।तस्यास्तु स्नापनं यादृक् कामाख्यायाः प्रकी-र्त्तितम्
तेनैव स्नापनं कुर्य्यात् मूलमन्त्रेण साधकः ।त्रिकोणं मण्डलं चास्यास्त्रिपुरन्तु त्रिरेखकम्
मन्त्रन्तु त्र्यक्षरं ज्ञेयं तथा रूपत्रयं पुनः ।त्रिविधा कुण्डलीशक्तिस्त्रिदेवानाञ्च सृष्टये
सर्व्वं त्रयं त्रयं यस्मात् तस्मात्तु त्रिपुरा मता
*
दहनं प्लवनं कृत्वा आद्यां मूर्त्तिं विचिन्तयेत् ।त्रिधावर्त्याथ हृदये तां मूर्त्तिं शृणु भैरव !
सिन्दूरपुञ्जसङ्काशां त्रिनेत्रान्तु चतुर्भुजाम् ।वामोर्द्ध्वे पुष्पकोदण्डं धृत्वाधः पुस्तकं तथा
दक्षिणोर्द्ध्वे पञ्चबाणानक्षमालां दधात्यधः ।चतुर्णां कुणपानान्तु पृष्ठेऽन्यं कुणपान्तरम्
निधाय तस्य पृष्ठे तु समपादेन संस्थिताम् ।जटाजूटार्द्धचन्द्रैस्तु समाबद्धशिरोरुहाम्
नग्नां त्रिवलिभङ्गेन चारुमध्यां मनोहराम् ।सर्व्वालङ्कारसम्पूर्णां सर्व्वाङ्गसुन्दरीं शुभाम्
स्रवद्द्रविणसन्दोहां सर्व्वलक्षणसंयुताम् ।एवन्तु प्रथमं ध्यात्या त्रिधात्मानञ्च चिन्तयेत्
*
द्वितीयं त्रिपुरारूपं तथैव तु तृतीयकम् ।आवाहनार्थं देव्यास्तु चिन्तयेत् योनिमुद्रया
वन्धूकपुष्पसङ्काशां जटाजूटेन्दुमण्डिताम् ।सर्व्वलक्षणसम्पूर्णां सर्व्वालङ्कारभूषिताम्
उद्यद्रविप्रख्यवस्त्रां पद्मपर्य्यङ्कसंस्थिताम् ।मुक्तारत्नावलीयुक्तां पीनोन्नतपयोधराम्
बलीविभङ्गचतुरामासवामोदमोदिताम् ।नेत्राह्लादकरीं शुद्धां क्षोभिणीं जगतां तथा
त्रिनेत्रां योगनिद्रां यामीषद्धाससमायुताम् ।नवयौवनसम्पन्नां मृणालाभचतुर्भुजाम्
वामोर्द्ध्वे पुस्तकं धत्ते अक्षमालान्तु दक्षिणे ।वामेनाभयदां देवीं दक्षिणाधोवरप्रदाम्
प्रस्रवद्रक्तसूर्य्याभां शिरोमालान्तु बिभ्रतीम् ।आपादलम्बिनीं कल्पद्रुममासाद्य संस्थिताम्
कदम्बोपवनान्तःस्थां कामाह्लादकरीं शुभाम् ।द्वितीयां त्रिपुरां ध्यायेदेवं रूपां मनोहराम्
*
तृतीयं त्रिपुरारूपं शृणु वेतालभैरव ! ।जवाकुसुमसङ्काशां मुक्तकेशीं वराननाम्
सदाशिवं हसन्तन्तु प्रेतवद्बिनिधाय वै ।हृदये तस्य देवस्य ह्यर्द्धपद्मासनस्थिताम्
रक्तोत्पलैर्म्मिश्रितान्तु मुण्डमालां पदानुगाम् ।ग्रीवायां धारयन्तीन्तु पीनोन्नतपयोधराम्
चतुर्भुजां तथा नग्नां दक्षिणोर्द्ध्वेऽक्षमालिनीम् ।वरदां तदधो वामे जगन्मायां तथाभयम्
अधस्तु पुस्तकं धत्ते त्रिनेत्रां हसिताननाम् ।स्रवद्द्रविणभोगार्त्तां तथा सर्व्वाङ्गसुन्दरीम्
एवंविधं तृतीयन्तु रूपं ध्यायेत्तु पूजकः ।आद्यन्तु वाग्भवं रूपं द्बितीयं कामराजकम्
डामरं मोहनञ्चापि तृतीयं परिकीर्त्तितम् ।एकैकन्तु त्रिरूपाणि प्राग्विचिन्त्याथ साधकः
मन्त्रत्रयेण प्रत्येकं हृदि षोडशकैस्तथा ।पूजयेदुपचारैस्तु बहिर्यद्वत्तथैव
”इति कालिकापुराणे ६२ अध्यायः
(अस्याः वीजम् “हसरैँ” “हसकलरीँ”“हसरौँ” इति मन्त्रकोषः
ऋग्वेदान्तर्गतोप-निषद्विशेषः यथा, मुक्तिकोपनिषदि “सहो-वाच श्रीरामः ऐतरेयकौषीतकीनादबिन्द्वात्म-प्रबोधनिर्व्वाणमुद्गलाक्षमालिकात्रिपुरासौभाग्य-बह्वृचानामृग्वेदगतानां दशसंख्यकानामुपनिषदांवाङ्मे मनसीति शान्तिः
नगरीविशेषः ।यथा, महाभारते २५३ ।“मोहनं पत्तनञ्चैव त्रिपुरां कोशलां तथा ।एतान् सर्व्वान् विनिर्जित्य करमादाय सर्व्वशः
”)