| YouTube Channel

त्रिपुरभैरवी (tripurabhairavI)

 
Monier Williams Cologne
English
त्रि—पुर—भैरवी
f.
Durgā,
KālP.
Śārad.
xii
Shabdartha Kaustubha
Kannada
त्रिपुरभैरवी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದುರ್ಗಾದೇವಿ
शब्दकल्पद्रुमः
Sanskrit
त्रिपुरभैरवी,
स्त्री,
(त्रिपुरा धर्म्मार्थकामानांदात्री सा चासौ भैरवी चेति ।) देवीविशेषः ।तन्मन्त्रादि यथा, --“वैष्णव्या मन्त्रमुख्येषु त्रिपुरायास्ततः शृणु ।तस्यास्तु सर्व्वमन्त्राणि त्रयोदशयुतानि वै
विंशतिस्तु सहस्राणि तत्राद्यं वाग्भवं स्मृतम् ।द्बितीयं कामराजाख्यं मोहनञ्च तृतीयकम्
आम्रेडितं वाग्भवन्तु चतुर्थं परिकीर्त्तितम् ।नेत्रवीजं द्वितीयन्तु द्विरुक्तं वाग्भवं तथा
आद्यं तत् पञ्चमं प्रोक्तं चतुर्भिरपि चाक्षरैः ।नेत्रवीजं द्वितीयन्तु प्रथमं परिकीर्त्तितम्
द्वितीयं कामराजन्तु तृतीयं वाग्भवं तथा ।एभिस्त्रिभिश्च यन्मन्त्रं तत् षष्ठं परिकीर्त्तितम्
नेत्रवीजद्वितीयेन वाग्भवान्तेन सप्तमम् ।तदेव वाग्भवाद्यन्तु अष्टमं परिकीर्त्तितम्
वाग्भवं कामराजञ्चेत्येताभ्यां नवमं स्मृतम् ।कामराजं तथैवाद्यं द्वितीयञ्चैव मोहनम्
एकादशमिदं प्रोक्तं तदेवाद्यन्तु वाग्भवम् ।द्वादशं कीर्त्तितं मन्त्रं शेषतस्त्रैपुरं महत्
तन्महत् त्रैपुरं मन्त्रं शृणुष्वैकमनास्त्विदम् ।प्रान्तादिस्तस्य चाप्यादिर्वह्निर्व्वाग्भवसंज्ञितः
आद्यं त्रिपुरभैरव्या वीजमाद्यं प्रकीर्त्तितम् ।उपान्त्यश्च तदादिश्च व्यञ्जनाद्यं वृषाणकः
चतुर्थस्वरविन्द्विन्दूयुक्तश्चैतत् द्वितीयकम् ।उपान्त्यश्च तदादिश्च वह्निः शेषस्वरस्तथा
समाप्तिर्बिन्दुसहिता संहितास्तु तृतीयकम् ।एतत्तत्त्वं विजानाति यो नरो भुवि भूमणिः
सिद्धविद्याधरेभ्यश्च सोऽधिको मन्मथो महान् ।एतत्त्रयोदश प्रोक्ता मन्त्रा मन्त्रेषु चोज्ज्वलाः
विंशतेस्तु सहस्रेभ्यः पराश्चैते प्रकीर्त्तिताः ।विंशतेस्तु सहस्राणामाद्यमेतत् प्रकीर्त्तितम्
”तस्या ध्यानं यथा, --“चतुर्भुजां रक्तवर्णां रक्तवस्त्रविभूषिताम् ।दक्षिणोर्द्ध्वे स्रजञ्चाधो बिभ्रतीं पुस्तकोत्तमम्
अभयं वामहस्ताभ्यां वरञ्च दधतीं तथा ।सहस्रसूर्य्यसङ्काशां त्रिनेत्रां गजगामिनीम्
पीनोत्तुङ्गस्तनयुगां सितप्रेतासनस्थिताम् ।स्मितप्रभिन्नवदनां सर्व्वालङ्कारसंयुताम्
तिसृभिर्म्मुण्डमालाभिः शिरोवक्षःकटीषु ।त्रिगुणं त्रिगुणीभूतैः प्रत्येकं परिभूषिताम्
मदिराघूर्णनयनां रक्तदन्तच्छदद्बयाम् ।चिन्तयेद्वरदां देवीमेवं त्रिपुरभैरवीम्
”इति कालिकापुराणे ७७ अध्यायः
वाचस्पत्यम्
Sanskrit
त्रिपुरभैरवी स्त्री त्रिपुरा भैरवी कर्म्म० त्रिपुराख्यदेवी-भेदे “आद्यं त्रिषुरभैरव्याः वीजमाद्यं प्रकीर्तितम्” इति“चिन्तयेद्वरदां देवीमेवं त्रिपुरभैरवीम्” इति तन्त्रसा०