त्रिपुरघ्न (tripuraghna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiत्रिपुरघ्नः
त्रि-पुर-घ्नः -
शिव के विशेषण
Shabdartha Kaustubha
Kannadaत्रिपुरघ्न
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಮೇಶ್ವರ /ಮಹಾದೇವ
निष्पत्तिः - > हन (हिंसागत्योः) - "कः" (वा० ३-२-५)
व्युत्पत्तिः - > त्रिपुरं हतवान्
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Mahabharata
EnglishTripuraghna, Tripuraghātin, Tripuraharta = Śiva, q.v.
वाचस्पत्यम्
Sanskritत्रिपुरघ्न त्रिपुरं हन्ति हन--टक् । १ महादेवे तस्यत्रिपुरहननकथा भा० क० ३४ अ० ।“मूर्त्तिं सर्वां समाधाय त्रैलोकस्य ततस्ततः । रथंते कल्पयिष्यामो देवेश्वर! महौजसम् । तथैव बुद्ध्याविहितं विश्वकर्म्मकृतं महत् । ततो विवुधशार्दूलास्तंरथं समकल्पयन् । विष्णु सोमं हुताशञ्च तस्येषुंसमकल्पयन् । शृङ्गमग्निर्बभूवास्य भल्लः सोमो विशा-म्पते! । कुद्मलञ्चाभवद्विष्णुस्तस्मिन्निषुवरे तदा । बन्धुरंपृथिवीं देवीं विशालपुरमालिनीम् । सपर्वतवनद्वीपांचकुर्भूतधरां तदा । मन्दरः पर्वतश्चाक्षं जङ्घा तस्यमहानदी । दिशश्च प्रदिशश्चैव परिवारो रथस्य ह ।ईषा नक्षत्रवशश्च युगः कृतयुगोऽभवत् । कूवरश्च रथ-स्थासीद्वासुकिर्भुजगोत्तमः । अपस्करमधिष्ठानं हिम-वान् बिन्ध्यपर्वतः । उढयास्तावधिष्ठाने गिरी चक्रुःसुरोत्तमाः । समुद्रमक्षमसृजन् दानबालयमुत्तमम् ।सप्तर्षिमण्डलञ्चैव रथस्यासीत् परिष्करः । गङ्गा सर-स्वती सिन्धुर्धुरमाकाशमेव च । उपस्करो रथस्यासन्नापःसर्वाश्च निम्नगाः । अहोरात्राः कलाश्चैव काष्ठाश्चऋतवस्तथा । अनुकर्षं ग्रहा दीप्ता बरूथञ्चापि तारकाः ।धर्म्मार्थकत्मसंयुक्तं त्रिवेणुं दारुवन्धनम् । ओषधीर्वींरुधस्तत्र नानापुष्पफलोपगाः । सूर्य्याचन्द्रमसौ कृत्वाचक्रे रथवरोत्तमे । पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनीशुभे । दश नागपतीनीषां धृतराष्ट्रमुखान् दृढान् द्यांयुगं युगचर्म्माणि संवर्त्तैकबलाहकान् । सन्ध्यां धृतिञ्चमेधाञ्च स्थितिं सन्नतिमेव च । ग्रहनक्षत्रताराभिश्चर्म्मचित्रं नभस्तलम् । सुराम्बुप्रेतवित्तानां पतील्लोँ-केश्वरान् हयान् । कालपृष्ठोऽथ नहुषः कर्कोटकधन-ञ्जयौ । इतरे चाभवन्नागा हयानां बालबन्धनाः ।दिशश्च प्रदिशश्चैव रश्मयो रथवाजिनाम् । वषट्कारःप्रतोदोऽभूत् गायत्री शीर्षबन्धनी । सिनीबालीमनुमतिंकुहूं राकाञ्च सुव्रताम् । योक्त्राणि चक्रुर्वाहानांरोहकांस्तत्र कण्टकान् । कर्म्म सत्यं तपोऽर्थश्च विहि-तास्तत्र रश्मयः । अधिष्ठानं मनश्चासीत् परिरथ्यासरस्वती । नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ।विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयन् । यो यज्ञेविहितः पूर्वमीशानस्य महात्मनः । संवत्सरो धनु-स्तद्वै सावित्री ज्या महास्वना । दिवञ्च वर्म्म विहितंमहार्हरत्नभूषितम् । अनेद्यं विरजस्कं वै कालचक्र-बहिष्कृतम् । ध्वजयष्टिरभून्मेरुः श्रीमान् कनकपर्वतः ।पताकाश्चाभवन्मेघास्तडिद्भिः समलङ्कृताः । रेजुरध्वर्य्यु-मध्यस्था ज्वलन्त इव पावकाः । कॢप्तन्तु तं रथं दृष्ट्वाविस्मिता देवताभबन् । सर्वलोकस्य तेजांसि दृष्ट्वैकस्थानिमारिष! । युक्तं निवेदयामासुर्देंवास्तस्मै महात्मने ।एवं तस्मिन् महाराज! कल्पिते रथसत्तमे । देवैर्म्मनु-जशार्दूल! द्विषतामभिमर्दने । स्वान्यायुधानि दिव्यानिन्यदधात् शङ्करो रथे । ध्वजयष्टिं वियत् कृत्वास्थापयामास गोवृषम् । ब्रह्मदण्डः कालदण्डो रुद्रद-ण्डस्तथा ज्वरः । परिष्कन्दा रथास्यासन् सर्वतोदिशमु-द्यताः । अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः ।ऋग्वेदः सामवेदश्च पुराणञ्च पुरःसरा । इतिहास-धनुर्वेदौ पृष्ठरक्षौ बभूवतुः । दिव्या वाचश्च दिव्याश्चपरिपार्श्वचराः स्थिताः । स्तोत्रादयश्च राजेन्द्र! वष-ट्कारस्तथैव च । ओँकारश्च मुखे राजन्निति शोभा-करोऽभवत् । विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरंधनुः । छायामेवात्मनश्चक्रे धनुर्ज्यामक्षयारणे । कालोहि भगवान् रुद्रस्तस्य संवत्सरो धनुः । तस्माद्रौद्रीकालरात्रिर्ज्यां कृत्वा धनुषोऽजराम् । इषुश्चास्याभवद्विष्णु-र्ज्वलनः सोम एव च । अग्नीषोमं जगत् कृत्स्नवैष्णवञ्चोच्यते जगत् । विष्णुश्चात्मा भगवतो भवस्या-मिततेजसः । तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ।तस्मिन् शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः । भृग्वङ्गि-रोमन्युभवं क्रोधाग्निमतिदुःसहम् । स नीललोहितोधूम्रः कृत्तिवासा भयङ्करः । आदित्यायुतसंङ्काशस्तेका-ज्वालादृतोऽज्वलत् । दुश्च्यावश्च्यावनो जेता हन्ताब्रह्मद्विषां हरः । नित्यं त्राता च हन्ता च धर्माधर्मा-श्रितान्नरान् । प्रमाथिभिर्भीमबलैर्भीमरूपैर्मनोजवैः ।विभाति भगवान् स्थाणुस्तैरेवात्मगुणैर्युतः तस्याङ्गानिसमाश्रित्य स्थितं विश्वमिदं जगत् । जङ्गमाजङ्गमंराजन्! शुशुभेऽद्भुतदर्शनम् । दृष्ट्वा तन्तु रथं युक्तंकवची स शरासनी । वाणमाटाय तं दिव्यं सोमवि-ष्ण्वग्निसम्भवम् । तस्य राजंस्तदा देवाः कल्पयाञ्चक्रिरेप्रभोः । पुण्यगन्धवहं राजन्! श्वसनं देवसत्तमम् ।तमास्थाय महादेवस्त्रासयन् दैवतान्यपि । आरुरोहतदा यत्तः कम्पयन्निव मेदिनीम् । तमारुरुक्षुं देवेशंतुष्टुवुः परमर्षयः । गन्धर्वा देवसंघाश्च तथैवाप्सर-साङ्गणाः । ब्रह्मर्षिभिःस्तूयमानो वन्द्यमानश्च वन्दिभिः ।तथैवाप्सरसांवृन्दैर्नृत्यद्भिर्नृत्यकोविदैः । स शोभमानोवरदः खङ्गी वाणी शरासनी । हसन्निवाब्रवीद्देवान्सारथिः को भविष्यति । तमब्रुवन् देवगणा यं भवान्संनियोक्ष्यते । स भविष्यति देवेश! सारथिस्ते नसंशयः । तानब्रवीत् पुनर्देवो मत्तः श्रेष्ठतरो हियः । तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य मा चिरम् ।एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना । गत्वापितामहं देवाः प्रसाद्येदं वचोऽब्रुवन् । यथातत् कथिता देव! त्रिदशारिविनिग्रहे । तथा च कृतम-स्माभिः प्रसन्नो नो वृषध्वजः । रथश्च विहितोऽ-स्माभिर्विचित्रायुधसंवृतः । सारथिञ्च न जानीमः कःस्यात्तस्मिन् रथोचमे । तस्माद्विधीयतां कश्चित् सारथि-र्देवसत्तम! । सफलं तां गिरं देव । कर्त्तुमर्हमि ।नो विभो! एवमस्मासु हि पुरा भगवन्नुक्तवानसि ।हितं कर्तास्मि भवतामिति तत् कर्त्तुमर्हसि । सदेवयुक्तो रथसत्तमो नो दुराधरो द्रावणः शात्रवाणाम् ।पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन् दानवानु-द्यतोऽसौ । तथैव वेदाश्चतुरो हयाग्र्या धरा सशैलाच रथो महात्मनः । नक्षत्रवंशानुगतो वरूंथी हरोहि योद्धा सारथिर्नाभिलक्ष्यः । तत्र सारथिरेष्टव्यः सर्वैरैतैर्विशेषवान् । तत्प्रतिष्ठो रथो देव! हरो योद्धातथैव च । कवचानि सशस्त्राणि कार्मुकञ्च पितामह! ।त्वामते मारथिं तत्र नान्यं पश्यामहे वयम् । त्वं हिसर्वगुणैर्युक्तो दैवतेभ्योऽधिकः प्रभो! । स रथं तूर्णमा-रुह्य संयच्छ परमान् हयान् । जयाय त्रिदशेशानांबधाय त्रिदशद्विषाम् । इति ते शिरसा नत्वा त्रिलो-केशं पितामहम् । देवाः प्रसादयामासुः सारथ्यायेतिनः श्रुतम्” । पितामह उवाच । “नात्र किञ्चिन्मृषावाक्यं यदुक्तं त्रिदिवौकसः । संयच्छामि हयानेषयुध्यतो वै कपर्दिनः” ।इत्युपक्रमे “तान् सोऽसुरगणान् दग्ध्वा प्राक्षिपत् प-श्चिमार्णवे । एवन्तु त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।महेश्वरेणक्रुद्धेन त्रैलोक्यस्य हितैषिणा” भा० क० ३४ अ० ।भा० द्रो० २०० अ० किञ्चिदन्यथोक्तं यथा“गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ।पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः । अक्षंकृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः । चक्रेकृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृक् । अणीं कृत्वैलपत्त्रञ्च पुष्पदन्तञ्च त्र्यम्बकः । युगं कृत्वा तु मलयम-वनाहञ्च तक्षकम् । योक्त्राङ्गानि च सत्त्वानि कृत्वाशर्वः प्रतापवान् । वेदान् कृत्वाथं चतुरश्चतुरोऽश्वान्म-हेश्वरः । उपवेदान् स्वलीनांश्च कृत्वा लोकत्रयेश्वरः ।गायत्रीं प्रग्रहं कृत्वा सावित्रीञ्च महेश्वरः । कृत्वो-ङ्कारं प्रतोदञ्च व्रह्माणञ्चेव सारथिम् । गाण्डीवंमन्दरं कृत्वा गुणं कृत्वा च वासुकिम् । विष्णुं शरो-त्तमं कृत्वा शल्यमग्निं तथैव च । वायुं कृत्वाथवाजाभ्यां पुङ्खे वैवस्वतं यमम् । विद्युत् कृत्वाथ निर्य्याणंमेरुं कृत्वाथ वै ध्वजम् । आरुह्य स रथं दिव्यं सर्वदे-वमयं शिवः । त्रिपुरस्य बधार्थाय स्थाणुः प्रहरतांवरः । असुराणामन्तककरः श्रीमानतुलविक्रमः । स्तूय-मानः सुरैः पार्थ! ऋषिभिश्च तषोधनैः । स्थानं महे-श्वरं कृत्वा दिव्यमप्रतिमं प्रभुः । अतिष्ठत् स्याणुभूतःस संहस्रं परि त्सरान् । यदा त्रीणि समेतानि अन्त-रीक्षे पुराणि च । त्रिपर्वणा त्रिशल्येन तदा तानिबिभेद सः । पुर णि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।शरं कालाग्मिसंयुक्तं विष्णुसोमसमायुतम् । पुराणिदग्धवन्तं तं दे याता पवीक्षितुम्” ।त्रिपुरदहनादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
