| YouTube Channel

त्रिपुरं (tripuraM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिपुरं,
क्ली,
(त्रयाणां पुराणां समाहारः तद्धि-तार्थेति समासः पात्रादित्वात् स्त्रीत्वाभावः ।)मयदानवनिर्म्मितं पुरत्रयम् (यथा, महा-भारते ४१ ३८ ।“महात्मना शङ्करेण त्रिपुरं निहतं यदा ।तदैतदस्त्रं निर्म्मुक्तं येन दग्धा महासुराः
”)पुरा असुरा देवैर्निर्जिताः सन्तो मायिनांपरमाचार्य्यं मयं शरणमाययुः गमनागमनेअदृश्या दुर्व्वितर्क्यपरिच्छदा हैमी रौप्यायसीतितिस्रः पुरो निर्म्माय तेभ्यो ददौ ते असुरास्ताभिःपुरीभिरलक्षिताः पूर्व्ववैरमनुस्मरन्तः सेश्वरान्त्रीन् लोकान् नाशयाञ्चक्रुस्ततः सेश्वरा लोकाहरं उपासाञ्चक्रिरे हरो मा भैष्टेति सुरानु-च्चार्य्य धनुषि शरं सन्धाय पुरेषु व्यमुञ्चत् तैःशरैः स्पृष्टाः पुरौकसोऽसुरा व्यसवः सन्तोनिपेतुः महायोगी मयस्तानसुरानानीयत्रिपुरस्थितसिद्धामृतरसकूपेऽक्षिपत् तेऽसुरा-स्तद्रसं प्सृष्ट्वा दृढशरीराः सन्त उत्तस्थुस्तदाविष्णुर्गौर्ब्रह्मा वत्सो भूत्वा त्रिपुरं प्रविश्यरसकूपामृतं पपौ असुरा विष्णुमायया मोहिताःसन्तो न्यषेधन् तदा विष्णुः स्वाभिः शक्तिभिःशम्भोर्युद्धोपकरणं रथसारथिधनुर्बाणादिकंव्यधात् ततः शम्भुः सन्नद्धो रथमास्थायशरन्धनुषि सन्धाय मध्याह्नकाले त्रिपुरं ददाह ।इति श्रीभागवतम्
(त्रीणि पुराणि यस्येतिविग्रहे त्रिपुरासुरे, पुं यथा, महाभारते ।७ २०० ७६ ।“आरुह्य रथं दिव्यं सर्व्वदेवमयं शिवः ।त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः
”)