| YouTube Channel

त्रिपुण्ड्रं (tripuNDraM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिपुण्ड्रं,
क्ली,
(त्रयाणां पुण्ड्राणां इक्षुवदाका-राणां समाहारः ।) भस्मादिकृतकपालस्थ-तिर्य्यग्रेखात्रयम् यथा, --“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।पूजितोऽपि महादेवो स्यात्तस्य फलप्रदः
तस्मान्मृदापि कर्त्तव्यं ललाटेऽपि त्रिपुण्ड्रकम्
”इति तिथ्यादितत्त्वम्
ब्रह्माण्डपुराणे ।“ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा ।तिलकं वै द्बिजः कुर्य्यात् चन्दनेन यदृच्छया
ऊर्द्ध्वपुण्ड्रं द्बिजः कुर्य्यात् क्षत्त्रियश्च त्रिपुण्ड्रकम् ।अर्द्धचन्द्रञ्च वैश्यश्च वर्त्तुलं शूद्रयोनिजः
”इत्याह्निकाचारतत्त्वम्
“शिवागमे दीक्षितैस्तु धार्य्यं तिर्य्यक्त्रिपुण्ड्रकम् ।विष्ण्वागमे दीक्षितस्तु ऊर्द्द्वपुण्ड्रं विधारयेत्
”इति नागोजीभट्टधृतसूतसंहिता
(यथा, शब्दचिन्तामणिधृतदेवीभागवतम् ।“येषां वपुर्मनुष्याणां त्रिपुण्ड्रेण विना स्थितम् ।श्मशानसदृशं तत् स्यान्न प्रेक्ष्यं पुण्यकृज्जनैः
”“त्रिपुण्ड्रं ये विनिन्दन्ति निन्दन्ति शिवमेव ते ।धारयन्ति ये भक्त्या धारयन्ति तमेव ते
तिर्य्यग्रेखा प्रदृश्यन्ते ललाटे सर्व्वदेहिनाम् ।तथापि मानवा मूर्खा कुर्व्वन्ति त्रिपुण्ड्रकम्
”)