| YouTube Channel

त्रिपताकं (tripatAkaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिपताकं,
क्ली,
(तिस्रः पताका इव रेखा यत्र ।)रेखात्रयाङ्कितभालम् इति हारावली ११४
(तिस्रः पताका इव अङ्गुलयो यत्र त्रिपताक-लक्षणान्विते हस्ते, पुं यथा, साहित्यदर्पणे ।६ १५४ ।“त्रिपताककरेणान्यानपवार्य्यान्तरा कथाम् ।अन्योन्यामन्त्रणं यत् स्याज्जनान्ते तज्जनान्ति-कम्
”“यः कश्चिदर्थो यस्माद् गोपनीयस्तस्यान्तरतऊर्द्ध्वं सर्व्वाङ्गुलिनामितानामिकं त्रिपताकलक्षणंकरं कृत्वान्येन सह यन्मन्त्र्यते तत्जनान्तिकम्
”)