त्रिनयन (trinayana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiत्रिनयनः
त्रि-नयनः -
शिव के विशेषण
Shabdartha Kaustubha
Kannadaत्रिनयन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮುಕ್ಕಣ್ಣ /ಈಶ್ವರ
व्युत्पत्तिः - > त्रीणि नयनानि यस्य
प्रयोगाः - > "शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम्"
उल्लेखाः - > मेघ० १-५२
Edgerton Buddhist Hybrid
Englishअभिधानरत्नमाला
Sanskritईशान
ईशान, शशिशेखर, पशुपति, शूली, शिव, शङ्कर, शर्व, शम्भु, उमापति, गिरिश, श्रीकण्ठ, उग्र, हर, सर्वज्ञ, त्रिपुरान्तक, त्रिनयन, रुद्र, कपर्दिन्, भव, भूतेश, परमेश्वर, अन्धकरिपु, दक्षाध्वरध्वंसकृत्, स्थाणु, स्रष्टृ, धूर्जटि, वामदेव, कामध्वंसिन्, व्योमकेश, कपालिन्, नीलग्रीव, वह्निरेतस्, पिनाकिन्, भीम, भर्ग, कृत्तिवासस्, वृषाङ्क, अहिर्बुध्न, विरूपाक्ष, शिपिविष्ट, गणाधिप, गङ्गाधर, महादेव, मृड, नीललोहित
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,
शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।
सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,
भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,
कामध्वंसी व्योमकेशः कपाली ।
नीलग्रीवो वह्निरेताः पिनाकी,
भीमो भर्गः कृत्तिवासा वृषाङ्कः ॥ १२ ॥
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः ।
गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः ॥ १३ ॥
verse 1.1.1.11
page 0003
शब्दकल्पद्रुमः
Sanskritत्रिनयनः, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि नय-नानि यस्य । “क्षुभ्नादिषु च ।” ८ । ४ । ३९ ।इति निषेधात् न णत्वम् ।) शिवः । इति हला-युधः ॥
(यथा, महाभारते । १४ । ८ । २७ ।“त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ॥
”)नयनत्रये, स्त्री ॥
(लोचनत्रयविशिष्टे, त्रि ।यथा, मातृकासरस्वतीध्याने ।“मुद्रामोक्षगुणं सुधाढ्यकलसं विद्याञ्चहस्ताम्बुजै-र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता-माश्रये ॥
”)
वाचस्पत्यम्
Sanskritत्रिनयन त्रीणि नयनानि यस्य “पूर्वपदात् संज्ञायामगः”पा० णत्वे प्राप्ते क्षुभ्रा० पाठात् न णत्वम् । १ महादेवे“योग्यस्य त्रिनयनलोचनार्च्चिः” “शोभां शुभ्रत्रिन-यनवृषोत्खातपङ्कोपमेयाम्” माघः । २ पार्वत्यां स्त्री“लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम्” तद्ध्याने तस्यानेत्रत्रयोक्तेः । ३ लोचनत्रययुक्ते “बिभ्राणां विंशदप्रभांत्रिनयनां वाग्देवनामाश्रये” मातृकासरस्वतीध्यानम् ।त्रिनेत्रत्रिलोचनादयोऽप्यत्र । इयांस्तु भेदः त्रिनेत्रशब्दस्यमहादेवपरत्वे संज्ञात्वात् पूर्वपदात् णत्वे प्राप्ते गिरि-नद्या० वा नत्वम् । अन्यत्र न णत्वमिति । शिवस्यतृतीयनेत्राविर्भावकथा भा० अनु० १० १४० । यथा“सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् । ततःस्मयन्ती पाणिभ्यां नर्म्मार्थं चारुदर्शना । हरनेत्रे शुभेदेवी सहमा सा समावृणोत् । संवृताभ्यान्तु नेत्राभ्यांतमो भूतमचेतनम् । निर्होमं निर्वषट्कारं जगद्वै स-हसाऽभवत् । जनश्च विमनाः सर्वो भयत्राससमन्वितः ।निमीलिते भूतपतौ नष्टसूर्य्य इवाभवत् । ततो विति-मिरो लोकः क्षणेन समपद्यत! ज्वाला च महती दीप्ताललाटात्तस्य निःसृता । तृतीयञ्चास्य सम्भूत नेत्रमादि-त्यसन्निभम्” इत्युपक्रमे उमोवाच “भगवान् सर्वभूतेश!शृलपाणे! महाव्रत! संशयो मे महान् जातस्तन्मेव्याख्यातुमर्हसि । किमर्थं ते ललाटे वै तृतीयं नेत्र-मुत्थितम् । किमर्थञ्च गिरिर्दग्धः सपक्षिगणकाननः ।किमर्थञ्च पुनर्देव! प्रकृतिस्थस्त्वया कृतः । तथैव द्रुमसं-च्छन्नः कृतोऽयं तु पिता मम” महेश्वर उवाच । “नेत्रे मेसंवृते देवि! त्वया बाल्यादनिन्दिते । नष्टालोकस्तथालोकः क्षणेन समपद्यत । नष्टादित्ये तथा लोके तमोभूतेनगात्मजे! । तृतीयं लोचनं दीप्तं सृष्टं मे रक्षताप्रजाः । तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः ।त्वत्प्रियार्थच्च मे देवि! प्रकृतिस्थः पुनः कृतः” । दुर्गायाःत्रिनयनाशब्दवाच्यत्वे हेतुर्देवीपु० ४५ अ० उक्तो यथा“पक्षिणां चोत्तरं लोकं तथा ब्रह्मायनं परम् । नयंसम्मार्गधर्मत्वं दृष्टौ त्रिनयना मता” देवीपु० ४५ अ० ।“पञ्चवक्त्रं त्रिनेत्रम्” शिवध्यानम् । “निजत्रिनेत्रत्वाव-तरत्वबोधिकाम्” नैष० साध्यगणभेदानां त्रिनेत्रत्वंमत्स्यपु० उक्तं यथा “ततः साध्यगणानीशस्त्रिनेत्रानसृ-सृत् पुजः । कोटयश्चतुरशीतिर्जरामरणवर्जिताः । कामंसृजन्नमर्त्यांस्तान् ब्रह्मणा विनिवारितः । नैवं विधाभवेत् सृष्टिर्जरामरणवर्जिता” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
