| YouTube Channel

त्रिधासर्ग (tridhAsarga)

 
वाचस्पत्यम्
Sanskrit
त्रिधासर्ग
पु०
त्रिकारः सर्गः भूतादिसर्गे “अष्टविकल्पोदैवस्तैर्य्यग्योनश्च पञ्चधा भवति मानुषश्चैकविधः समा-सतोऽयं त्रिधासर्गः” सां० का० “ब्राह्मः प्राजापत्यः ऐन्द्रःपैत्रः गान्धर्वः याक्षः राक्षसः पैशाच इत्यष्टविकल्पो दैवःसर्गः पशुमृगपक्षिसरीसृपस्थावरा इति पञ्चविधस्तैर्य्य-ग्योनः सर्गः मानुष्यश्चैकविधः ब्राह्मणाद्यवान्तरजातिभेदा-विवक्षया संस्थानस्य चतुर्ष्वपि वर्णेष्वविशेषात्” सा० त० कौ०