| YouTube Channel

त्रिदोषजः (tridoSajaH)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिदोषजः, त्रि, (त्रिदोषाज्जायते इति जन +“पञ्चम्यामजातौ ।” ९८ इति डः ।)त्रिदोषजनितः सन्निपातरोगः यथा, --“चिरज्वरे वातकफोल्वणे वात्रिदोषजे वा दशमूलमिश्रः ।किराततिक्तादिगणः प्रयोज्यःशुद्ध्यर्थिने वा त्रिवृता विमिश्रः
”इति चक्रपाणिदत्तः
(“दृष्ट्वा त्रिदोषजं घोरं ज्वरं प्राणापहारकम् ।तस्मादादौ कफस्यास्य शोधनं परिकीर्त्तितम्
कुर्य्यात् पित्तशमनं यदीच्छेदात्मनो यशः ।कफो वातो बलीयांस्तु सद्यो हन्ति रुजातुरम्
लङ्घनं वमनं वारि ष्ठीवनं स्यात्त्रिदोषजे ।त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा
लङ्घनञ्च समुद्दिष्टं ज्ञात्वा दोषबलाबलम् ।कफं विशोधितं ज्ञात्वा ततो वातनिवारणम्
पित्तसंशमनं कार्य्यं ज्ञात्वा पित्तस्य कोपनम् ।शोधनीयौ वातकफौ तु पित्तं विनाशयेत्
”इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये
)