| YouTube Channel

त्रिदिवः (tridivaH)

 
Wordnet
Sanskrit
Synonyms:
स्वर्गः, सुरलोकः, नाकः, त्रिदिवः, त्रिदशालयः, सुरलोकः, द्योः, द्यौ, त्रिविष्टपम्, मन्दरः, अवरोहः, गौः, रमतिः, फलीदयः, स्वः, अपरलोकः, अमरलोकः, इन्द्रलोकः, देवलोकः, देवनिकायः, परुः, पुरुः, षः, सुखाधारः, सौरिकः, हः
noun
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
"सत्कर्मणा मनुष्यः स्वर्गे गच्छति।"
शब्दकल्पद्रुमः
Sanskrit
त्रिदिवः,
पुं,
(त्रयो ब्रह्मविष्णुरुद्रा दीव्यन्त्यत्रेति ।दिव + “हलश्च ।” १२१ इति घञ् ।संज्ञापूर्व्वकत्वात् गुणः यद्वा, दीव्यन्तीतिदिवाः इगुपधज्ञेति कः त्रयः सत्त्वरजस्तमो-रूपाः दिवाः क्रीडका विलासका इत्यर्थः यत्र ।“तृतीया द्यौस्त्रिदिवः घञर्थे कविधानं वृत्ति-विषये संख्याशब्दस्य पूरणार्थत्वं त्रिभागवत् ।”इति शिशुपालवधटीकायां मल्लिनाथः ।३६ ।) स्वर्गः इत्यमरः
(यथा, मनुः २५३ ।“रक्षणादार्य्यवृत्तानां कण्टकानाञ्च शोधनात् ।नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः
”)क्ली, आकाशः इति हेमचन्द्रः