| YouTube Channel

त्रिदण्डः (tridaNDaH)

 
Apte Hindi
Hindi
त्रिदण्डः
पुं*
त्रि-दण्डः -
एक धर्मनिष्ठ संन्यासी की अवस्था
शब्दकल्पद्रुमः
Sanskrit
त्रिदण्डः,
पुं,
(त्रिदण्डं चतुरङ्गुलगोबालवेष्टना-दन्योन्यसम्बन्धं अस्त्यस्येति अर्शआदित्वा-दच् ।) सन्न्यासाश्रमः यथा, --“यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः ।ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति
”इति श्रीभागवतम्
(त्रयाणां दण्डानां समाहारः यतित्रिदण्डे, क्ली यथा, महाभारते १२ ३२० १५५ ।“सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः ।अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः
”कायवाङ्मनोदण्डत्रये यथा, मनुः १२ ११ ।“त्रिदण्डमेतन्निक्षिप्य सर्व्वभूतेषु मानवः ।कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति
“सत्त्वमात्मा शरीरञ्च त्रयमेतत्त्रिदण्डवत् ।लोकास्तिष्ठति संयोगात्तत्र सर्व्वं प्रतिष्ठितम्
”इति चरके सूत्रस्थाने प्रथमेऽध्याये
)