| YouTube Channel

त्रितयं (tritayaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रितयं,
क्ली,
(त्रयोऽवयवा अस्य त्रि +“संख्याया अवयवे तयप् ।” ४२ ।इति तयप् ।) त्रयम् इति व्याकरणम्
(यथा, महाभारते १३ १११ १८ ।“धर्म्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् ।एतत्त्रयमवाप्तव्यमधर्म्मपरिवर्ज्जितम्
”त्रिप्राकारे, त्रि यथा, पञ्चदश्याम् ४६ ।“त्रितयीमपि तां मुक्त्रा परस्परविरोधिनीम् ।अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते
”)