| YouTube Channel

त्रिणाचिकेतः (triNAciketaH)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिणाचिकेतः,
पुं,
(त्रिकृत्वश्चितो नाचिकेतोऽग्नि-र्येन पूर्व्वपदादिति णत्वम् ।) यवुर्व्वेदैक-देशो ग्रन्थः तद्वेदाध्यायी (यथा, मनुः ।३ १८५ ।“त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्
”“त्रिणाचिकेतः अध्वर्य्युवेदभागस्तद्व्रतञ्च तद्-योगात् पुरुषोऽपि त्रिणाचिकेतः
इति तट्टी-कायां कुल्लूकभट्टः
नारायणस्य नामविशेषः ।यथा, महाभारते १२ ३३८ ।“पञ्चाग्ने ! त्रिणाचिकेत ! षडङ्गनिधान !
”)