| YouTube Channel

त्रिजातकं (trijAtakaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिजातकं,
क्ली,
(त्रिगुणितं जातं सुगन्धिद्रव्य-रूपम् ततः स्वार्थे कन् ।) मिलिततुल्य-त्वगेलापत्राणि यथा, --“एलादित्रिभिरुद्दिष्टं त्रिजातं त्रिसुगन्धिकम् ।चातुर्जातं सनागन्तु द्वयं वातकफापहम्
”अपि ।“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।नागकेशरसंयुक्तं चातुर्जातकमुच्यते
”इति स्रजनिर्घण्टः
(अस्य लक्षणपर्य्याया यथा, --“त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।तद्द्वयं रेचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् ।लघुपित्ताग्निकृद्बल्यं कफवातविषापहम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)