| YouTube Channel

त्रिचित (tricita)

 
वाचस्पत्यम्
Sanskrit
त्रिचित
पु०
त्रिभागोत्मेधाभिरिष्टाकाभिः चितः गार्ह-पत्येऽग्निभेदे “त्रिचितमित्येके” कात्या० श्रौ० १७ ।१ २२ “गार्हपत्यं कुर्वन्ति तत्र त्रिभागोत्सेधाइष्टका इति सम्प्रदायः अस्मिंश्च पक्षे प्रथमचितिः लोकं-पृणानां पूरणं मृग्यम्” कर्कः “उपर्येव चितित्रयात्मकंचिनोति अथ यो गार्हपत्येऽग्निः सोऽस्यावाङ् प्राणाःतं हैके त्रिचितं चिन्वन्ति” शत० ब्रा० १५