| YouTube Channel

त्रिगर्त्तः (trigarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिगर्त्तः,
पुं,
(त्रयो गर्त्ता यत्र ।) देशविशेषः ।लाहोराख्यदेशैकभागः तत्पर्य्यायः जाल-न्धरः इति हेमचन्द्रः २४
(देशो-ऽयं कूर्म्मविभागे उत्तरस्यामुक्तः यथा, बृहत्-संहितायाम् १४ २५ ।“उत्तरतः कैलासः” इत्युपक्रम्य, --“त्रिगर्त्ततुरगाननाश्वमुखाः
”इत्युक्तवान्
)तद्देशस्थे पुं भूम्नि (यथा, महाभारते ।२७ १८ ।“ततस्त्रिगर्त्ताः कौन्तेयं दार्व्वाः कोकनदास्तथा ।क्षत्त्रिया बहवो राजन्नुपावर्त्तन्त सर्व्वशः
”)गणितान्तरम् इति मेदिनी ते, ११३