| YouTube Channel

त्रिकूटः (trikUTaH)

 
Apte Hindi
Hindi
त्रिकूटः
पुं*
त्रि-कूटः -
सीलोन का एक पहाड़ जिसपर रावण की राजधानी लंका स्थित थी
Wordnet
Sanskrit
Synonyms:
त्रिमुकुटः, त्रिशिखरः, त्रिकूटः
noun
त्रिभिः शिखरैः युक्तः पर्वतः।
"त्रिमुकुटस्य शिखरे एकः भव्यः देवालयः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
त्रिकूटः,
पुं,
(त्रीणि कूटानि शृङ्गाणि यस्य ।)पर्व्वतविशेषः यस्योपरि लङ्का (यथा, रामा-यणे ।“स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श
”)तत्पर्य्यायः त्रिककुत् इत्यमरः
सुवेलः त्रिमुकुटः इति हेमचन्द्रः
त्रिशृङ्गः चित्रकूटकः इति शब्दरत्ना-वली
(अयन्तु पीठस्थानानामन्यतमः अत्रभगवती रुद्रसुन्दरीरूपेण विराजते यथा, देवीभागवते ३० ६६ ।“नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी
”)क्षीरोदसमुद्रतीरस्थपर्व्वतः यथा, --“सर्व्वरत्नमयः श्रीमान् त्रिकूटो नामः पर्व्वतः ।सुतः पर्व्वतराजस्य सुमेरोर्भास्करद्युतेः
क्षीरोदजलवीच्या यो धौतामलशिलातलः ।उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः
अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः ।गन्धर्व्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः
विद्याधरैः सपत्नीकैः संयुतैस्तु तपस्विभिः ।मृगद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते
पुन्नागैः कर्णिकारैश्च विल्वामलकपाटलैः ।चूतनिम्बकदम्बैश्च चन्दनागुरुचम्पकैः
शालैस्तालैस्तमालैश्च शरलार्ज्जुनपिप्पलैः ।तथान्यैर्व्विविधैर्वृक्षैः सर्व्वतः समलङ्कृतः
नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः ।शोभितो रुचिरप्रख्यैस्त्रिभिर्व्वर्णैश्च सानुभिः
मृगैः शाखामृगैः सिंहैर्म्मातङ्गैश्च सदामदैः ।जीवञ्जीवकसंधुष्टैश्चकोरशिखिनादितैः
तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः ।नानापुष्पसमायुक्तं नानागन्धाधिवासितम्
द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः ।पाण्डराम्बुदसं काशं तुषारचयसन्निभम्
वज्रेन्द्रनीलवैदूर्य्य्यतेजोभिर्भासयन् दिशः ।तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम्
तत् कृतघ्नाः पश्यन्ति नृशंसा नास्तिकाः ।नातप्ततपसो लोके ये पापकृतो जनाः
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।कारण्डवसमाकीर्णं राजहंसोपशोभितम्
गजो ह्यचलसंकाशो मदाच्चलितलोचनः ।तृषितः पातुकामोऽसाववतीर्णश्च तज्जलम्
लीनः पङ्कजवने यूथमध्यगतश्चरन् ।गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना
गरुडस्थो जगन्नाथो लोकाधारस्तपोधन ! ।ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात्
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ।स्थलस्थं दारयामास ग्राहं चक्रेण माधवः
मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम्
”इति वामनपुराणम्
(घोटकविशेषः यथा, नकुलकृताश्वचिकित्-सिते ।“त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।त्रिकूटः परिज्ञेयो वाजिवृद्धिकरः परः
”)