त्रिकूट (trikUTa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishत्रिकूट - trikUTa - - having 3 peaks or humps or elevations
स्कन्ध - skandha - - equality of height in the humps of a pair of draught oxen
त्रिकूट - trikUTa - - having 3 peaks or humps or elevations
त्रिकूट - trikUTa - - sea-salt prepared by evaporation
त्रिकूट - trikUTa - - sea-salt
Monier Williams Cologne
EnglishMacdonell
EnglishApte Hindi
Hindiत्रिकूटः
त्रि-कूटः -
सीलोन का एक पहाड़ जिसपर रावण की राजधानी लंका स्थित थी
Shabdartha Kaustubha
Kannadaत्रिकूट
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತ್ರಿಕೂಟ ಪರ್ವತ /ಮೂರು ಶಿಖರಗಳುಳ್ಳ ಒಂದು ಪರ್ವತ
व्युत्पत्तिः - > त्रीणि कूटानि शिखराणि अस्य
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritसुवेलः स्यात्त्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः ॥ १०३० ॥
सुवेल (पुं), त्रिमुकुट (पुं), त्रिकूट (पुं), त्रिककुद् (पुं)
Mahabharata
EnglishTrikūṭa^1, a mountain. § 290 (Śiśupālavadhap.): II, 42, 1484 (ºsthāṃ Gaṅgāṃ, in the north?).
Trikūṭa^2, a mountain near Laṅkā. § 528 (Rāvaṇagamana): III, 277, 15998 (on his way from Laṅkā to Gokarṇa Rāvaṇa crossed T.).--§ 534d (Laṅkā): III, 282, 16252 (ºgirikanḍare, there Laṅkā is situated).
पुराणम्
Englishत्रिकूट / TRIKŪṬA. A mountain. There are twenty mountains on the four sides of mahāmeru including trikūṭa. Purāṇas say that the city of laṅkā, the abode of rāvaṇa, was at the top of trikūṭa. mahāmeru is at the north of bhārata. laṅkā is to the south of bhārata. Then how is it possible for laṅkā to be on the top of trikūṭa?
There is a story to substantiate this belief. Once there arose a quarrel between vāsuki and Vāyubhagavān and they decided to find out who between the two was more powerful. vāsuki went and lay wound round mahāmeru so tightly that even vāyu (air) could not enter it. vāyu got enraged and broke into a cyclone shaking the whole world. Even mahāmeru began to shake but vāsuki lay unaffected. The Cyclone began to increase in vigour and the devas were frightened and they went to Mahāviṣṇu accompanied by śiva and brahmā. After hearing their story viṣṇu called vāsuki and vāyu to his side and commanded them to stop the quarrel. vāsuki then unwound a part of his winding and that was from trikūṭa. At once vāyu entered there and separating trikūṭa from other parts carried it away and dropped it in the southern sea. It fell to the south of the southern end of bhārata. laṅkā is the city built on it by the celebrated architect, Viśvakarman.
शब्दकल्पद्रुमः
Sanskritत्रिकूटं, (त्रिकूटः पर्व्वतः उत्पत्तिस्थानत्वे-नास्त्यस्येति अर्श आदित्वादच् ।) सिन्धुलवणम् ।सामुद्रलवणम् । इति रत्नमाला ॥
त्रिकूटः, (त्रीणि कूटानि शृङ्गाणि यस्य ।)पर्व्वतविशेषः । यस्योपरि लङ्का । (यथा, रामा-यणे । ५ । २ । १ ।“स सागरमनाधृष्यमतिक्रम्य महाबलः ।त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह ॥
”)तत्पर्य्यायः । त्रिककुत् २ । इत्यमरः । २ । ३ । २ ॥
सुवेलः ३ त्रिमुकुटः ४ । इति हेमचन्द्रः ॥
त्रिशृङ्गः ५ । चित्रकूटकः ६ । इति शब्दरत्ना-वली ॥
(अयन्तु पीठस्थानानामन्यतमः । अत्रभगवती रुद्रसुन्दरीरूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६६ ।“नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥
”)क्षीरोदसमुद्रतीरस्थपर्व्वतः । यथा, --“सर्व्वरत्नमयः श्रीमान् त्रिकूटो नामः पर्व्वतः ।सुतः पर्व्वतराजस्य सुमेरोर्भास्करद्युतेः ॥
क्षीरोदजलवीच्या यो धौतामलशिलातलः ।उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥
अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः ।गन्धर्व्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥
विद्याधरैः सपत्नीकैः संयुतैस्तु तपस्विभिः ।मृगद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥
पुन्नागैः कर्णिकारैश्च विल्वामलकपाटलैः ।चूतनिम्बकदम्बैश्च चन्दनागुरुचम्पकैः ॥
शालैस्तालैस्तमालैश्च शरलार्ज्जुनपिप्पलैः ।तथान्यैर्व्विविधैर्वृक्षैः सर्व्वतः समलङ्कृतः ॥
नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः ।शोभितो रुचिरप्रख्यैस्त्रिभिर्व्वर्णैश्च सानुभिः ॥
मृगैः शाखामृगैः सिंहैर्म्मातङ्गैश्च सदामदैः ।जीवञ्जीवकसंधुष्टैश्चकोरशिखिनादितैः ॥
तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः ।नानापुष्पसमायुक्तं नानागन्धाधिवासितम् ॥
द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः ।पाण्डराम्बुदसं काशं तुषारचयसन्निभम् ॥
वज्रेन्द्रनीलवैदूर्य्य्यतेजोभिर्भासयन् दिशः ।तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥
न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।नातप्ततपसो लोके ये च पापकृतो जनाः ॥
तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥
गजो ह्यचलसंकाशो मदाच्चलितलोचनः ।तृषितः पातुकामोऽसाववतीर्णश्च तज्जलम् ॥
स लीनः पङ्कजवने यूथमध्यगतश्चरन् ।गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना ॥
गरुडस्थो जगन्नाथो लोकाधारस्तपोधन ! ।ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ॥
उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ।स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ॥
मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥
”इति वामनपुराणम् ॥
(घोटकविशेषः । यथा, नकुलकृताश्वचिकित्-सिते । ४ । ९ ।“त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥
”)
वाचस्पत्यम्
Sanskritत्रिकूट त्रीणि कूटानि शृङ्गाण्यस्य । लवणसमुद्रमध्यस्थेलङ्कापुराधारे पर्वतभेदे अमरः । “तैरूहे केशरिक्रान्त-त्रिकूटशिखरोपमा” माघः “स सागरमनाधृष्यमतिक्रम्यमहाबलः । त्रिकूटस्य तटे लङ्कां स्थितः खस्थो ददर्शह” रामा० सु० २ अ० । स आकरत्वेनास्त्यस्य अच् । २ तद्भवेसामुद्रलवणे । ३ सुमेण्सुते क्षीरोदसमुद्रतीरस्थेपर्वते च तत्कथा वामनपु० “सर्वरत्नमयः श्रीमान्त्रिकूटो नाम पर्वतः । सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः । क्षीरोदजलवीच्या यो धौतामलशिलातलः ।उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः” इत्युपक्रमे“तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः । नानापुष्प-समायुक्तं नानागन्धाधिबासितम् । द्वितीयं राजतंशृङ्गं सेवते यन्निशाकरः । पाण्डुराम्बुदसंकाशंतुषारचयसन्निभम् । वज्रेन्द्रनीलवैदूर्य्यतेजोभिर्भासयन्दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् । नतत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्त-तपसो लोका ये च पापकृतो जनाः । तस्य सानुमतःपृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहं-सोपशोभितम् । गजोह्यचलसंकाशो मदाच्चलितलो-चनः । तृषितः पातुकामोऽसायवतीर्णश्च तज्जलम् ।संलीनः पङ्कजवने यूथमध्यगतश्चरन् । गृहीतस्तेन रौद्रेणग्राहेणाव्यक्तमूर्त्तिना । गरुडस्थो जगन्नाथो लोका-धारस्तपोधन! । ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहंजलाशयात् । उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ।स्थलस्थं दारयामास ग्राहं चक्रेण माधवः । मोक्षया-मास नागेन्द्रं पापेभ्यः शरणागतम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
