| YouTube Channel

त्रिकर्म्मन् (trikarmman)

 
वाचस्पत्यम्
Sanskrit
त्रिकर्म्मन्
पु०
त्रीणि कर्म्माण्यस्य यजनं याजनञ्चैव तथादानप्रतिग्रहौ अध्यापनञ्चाध्ययनं षट् कर्मा धर्मभाग्द्विजः” भा० अनु० १३१ अ० उक्तेषु षट्सु कर्मसुमध्ये वृत्त्यर्थयाजनप्रतिग्रहाध्यापनभिन्नावृत्त्यर्थदाने-ज्याध्ययनरूपकर्मकारिणि द्विजे “त्रैविद्यो ब्राह्मणोविद्वान् चाध्ययनजीवकः त्रिकर्मा त्रिपरिक्रान्तोमैत एष स्मृतः द्विजः” भा० अनु० १४१ अ०